________________
६७२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. १० साधारण्येन सत्त्वस्य ग्रहीतुमशक्यत्वात् । देवदत्त गामानयेत्युक्ते हि विवक्षितगोविषयानयनान्वितो नियत एव देवदतः प्रतीयते । गौरपि प्रतिनियतो देवदत्तकर्तृकानयनान्वितोऽसाधारण एव वेद्यते । आनयनमपि च नियतगोदेवदत्तान्वितं तथाभूतमेव ज्ञायते, इत्येवं समुदितेषु पदार्थप्वसाधारण्येन प्रतीयमानेषु न सत्त्वग्रहणसम्भवः । तेषां व्यभिचारादानन्त्याद्वा । तथा हि, न नियतस्य शाबलेयसन्निवेशस्य गोशब्दो वाचकः । तदभावेऽपि बाहुलेये दर्शनात् । न च त्रैलोक्यान्तर्गतसकलगोपिण्डगतसन्निवेशवच
नत्वमवगन्तुं शक्यम् । आनन्त्यादिति । तदयुक्तम् । आद्यपक्ष१० कक्षीकारात् । द्वितीयपक्षे त्वसाधारण्यं भवपि न नः क्षतिकरम् ।
न ह्येते लिङ्गवत्सम्बन्धग्रहणमपेक्षमाणा अवबोधकाः । येनाऽसाधारण्यातेषु सम्बन्धग्रहणं नाबकल्पत इत्युच्यमानं शोभेत । किं त्वगृहीतसम्बन्धा अप्याकांक्षासन्निधियोग्यत्वपर्यालोचनया परस्परं संसृज्यन्ते ।
स एव च वाक्यार्थो यः संसृष्टः पदार्थसमुदायः । इतरपदार्थविशिष्टो १५ वेतरपदार्थ इति । नाप्यशाब्दवनिमित्तत्वं वाक्यार्थप्रतीतेराशङ्कनीयम् ।
शब्दावगतिमूलत्वेन तस्याः शाब्दत्वादिति स्थितं पदात्पदार्थप्रतीतिस्ततो वाक्यार्थावगतिरिति । निस्टति भट्टचट्टः स्पष्टमसावभिहितान्वयो ध्वनिषु ॥
अधिरोप्य युक्तिदिव्यं दोषज्ञास्तं परीक्षन्ते ॥ ५५४ ।। २० तथा हि, यत्तावदवादि पदानि पदार्थानेवाभिदधतीत्यादि । तत्र
संहतान्यसंहतानि वा पदानि पदार्थानपि संसृष्टानसंसृष्टान्वा प्रतिपादयेयुः । तत्र संहतानि पदानि संसृष्टान्पदार्थानभिदधति, ते च वाक्यार्थमवगमयन्तीत्युच्यते । तदेतदेवोक्तं भवति, वाक्यं वाक्यार्थं प्रति
पादयति स च पुनरपि वाक्यार्थमवगमयतीति । संहतानां पदानामेव २५ वाक्यत्वात्, संसृष्टानां च पदार्थानां वाक्यार्थत्वात् । तथा च द्विरवगमो
वाक्यार्थस्याप्रमाणको निरुपयोगश्च प्रसज्येत । अथ संहतानि तान्य
"Aho Shrut Gyanam"