________________
परि. ४ सू. १० ]
स्याद्वादरत्नाकरसहितः
अन्वयव्यतिरेकाभ्यां खल्वेवमवगम्यते यपदार्थ पूर्वको वाक्यार्थ इति । यो हि मानसादपचाराच्छ्रुतेष्वपि पदेषु पदार्थान्नावगच्छति नावगच्छत्येवासौ वाक्यार्थम् । यस्त्वभूतेष्वपि पदेषु प्रमाणान्तरतः पदार्थाजानीयाजानात्येवासौ वाक्यार्थम् । यदाह - " पश्येतः श्वेतिमारूपं हेपाशब्दं च श्वतः || खुरविक्षेपशब्दं च वेतोऽवो धावतीति ५ घः ॥ १ ॥ दृष्टा वाक्यविनिर्मुक्ता न पदार्थाद्विना क्वचित् ॥ " इति । आरूपमव्यक्तं रूपम् । तेन गुणिविशेषो न प्रत्यक्षेणावसीयत इत्यर्थः । तदेवं वाक्यार्थबुद्धिः पदार्थप्रतीति न व्यभिचरति तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हति । अपि च, अनन्यलभ्यः शब्दार्थः प्रसिद्धः । लभ्यते च समभिव्याहारान्यथानुपपत्त्या पदाना १० मन्वितार्थपराणां स्वाभिधेयार्थरूपसमवेतान्वितावस्थाप्रत्यायनं लक्षगया । न हि पदानि समभिव्याहृतानि स्वाभिधेयप्रत्ययमात्रे पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्रप्रत्यायनाय प्रवर्तन्ते । प्रतिपित्सितं खल्वेते प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अनुभुत्सितावबोधने त्वनन्वयविषयवचनतया नामी लौकिकाः परीक्षका १५ इत्युपेक्षेरन् । न च भूयो भूयः समधिगतं परे पदार्थमात्रं बुभुत्सन्ते । तस्मादधिगतमर्थमवगमयितुमनसो न समभिव्याहरन्ति वृद्वा: पदानि । तदयं समभिव्याहारः पदानामनधिगतार्थप्रत्यायन युक्तस्तमन्तरेणानुपपद्यमानस्वाभिधेयसमवेतामनधिगतचरीं समन्वितावस्थां लक्षयति । तदुक्तम् - " विशिष्टार्थी प्रयुक्ता हि समभिव्याहृतिर्जने " इति, २० वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति हि स्थितिः " इति च । अथ पदार्थाः प्रत्येकं वाक्यार्थमवगमयेयुः समुदिता वा । नाद्यः पक्षः, गौरित्युक्तेऽपि वाक्यार्थप्रतीतिप्रसङ्गात् । यावन्तश्च पदार्थास्तावन्तो वाक्यार्थाः प्रतीयेरन् । अथ प्रत्येकमध्येकमेव वाक्यार्थं बोधयति । तदाऽऽवृत्त्या तत्प्रतीतिप्रसक्तिः । नापि द्वितीयः । समुदितानां तेषाम- २५
१ मी. श्ला. वा. वा. अ. लो. ३५८।३५९ ।
" Aho Shrut Gyanam"
६७१