________________
६७०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० न्वयमात्रविषयाऽन्वितविशेषविषया वा । न तावदन्वयमात्रविषषा । तन्मात्रविषवत्वे तम्य सर्वत्राविशेषात्सर्वेषां शब्दानां पर्यायत्वापत्तेः । अथान्वितविशेषविषयाऽन्वितविशेषाणां च स्वरूपतो भेदान्न पर्यायत्वापत्तिरिति चेत् । नैवम् । अन्वितविशेषविषयत्वे ह्यन्वयमात्रमप्य५ भिधानीयं शब्देन । अन्यथा तदसिद्धेः । तदभिधाने चैकान्विते विशेषेऽपरान्वयमात्रे पदानां शक्तिः प्रसज्यते विकल्पनागौरवं स्यात् । न चेदं वाच्यं व्यतिषिक्ताभिधाय्येव पदं न व्यतिषङ्गस्य वाचकम् । व्यतिषिक्ततोऽवगतेय॑तिषङ्गस्य । यदाह--" व्यतिषिक्ताभिधानेन
व्यतिषङ्गमतियतः।। तेनैकवित्तिवेद्येऽस्मिन्न निमित्तान्तरादरः॥१॥" १० इति । यतो व्यतिषिक्तेति रूपमात्रमुच्यते पदैरुपलक्ष्यते व्यतिषङ्ग
इत्यर्थो विवक्षितो, यद्वा व्यतिषङ्गादेव तैस्तदुच्यत इति । तत्र रूपमात्राभिधानजन्मा ख्यातिर्न व्यतिषङ्गमपि गोचरयितुमर्हति । न हि यथा दण्डमन्तरेण दुरवगमं दण्डिस्वरूपं तथेदमपि व्यतिषङ्गमन्तरेण
दुरवगमं येन स्वगोचरशब्दसामर्थ्यजन्मनि ज्ञाने स्वान्वयमपि समर्प१५ येत् । तद्रूपस्यान्वयव्यतिरेकेणापि शक्यनिरूपणत्वात् । नान्वयं विना
तद्रूपकं क्वचिदपीति चेत्, लिङ्गमाप लिगिनं विना न कचिदपीति तदपि तन्निरूपणाधीननिरूपणमस्तु । अस्त्वेवमिति चेत् । तर्हि कथं लिङ्गिनो लिङ्गित्वम् । लिङ्गापूर्वमेव तस्य निर्णीतत्वादिति कीर्ति
शेषमनुमानमासज्येत । २० एवं च --
सूक्ष्मामपि न परीक्षां परीक्ष्यमाणं परीक्षकैः क्षमते ।।
इदमन्विताभिधानं प्राभाकर वर्जनीयं तत् ॥ ५५३ ॥ भट्टाः पुनरेवं सङ्गिरन्ते । पदानि पदार्थानेवाभिदधति । तेऽभि
हिताः सन्तो वाक्यार्थमवबोधयन्ति । तदुक्तम्-- अभिहितान्वयवादिभमयोपा पदानि हि स्वं स्त्रमभिधायाऽर्थ निवृत्तव्यापारा
ण्यथेदानीमर्थोऽवगतोऽर्थान्तरमवगमयतीति"।
१ मी. शा. भा. पृ. २५ पं. ८ ।
"Aho Shrut Gyanam"