________________
६६९
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः स्याऽर्थमभिदधति पदानि वाक्यमिति स्वसिद्धान्तविरोधश्च । संहतानि पदानि वाक्यार्थं प्रतिपादयन्तीति द्वितीयपक्षे त्वस्मन्मतप्रवेशः । संहतिरूपं परिणाममापन्नानां तेषां वाक्यत्वेनास्माकं सम्मतत्वात् । तस्यैव च वाक्यार्थप्रतिपादकत्वात् । यच्चाकांक्षाया अभिधानापर्यवसाननिब
धनत्वं चाभ्यधायि तदसम्बद्धम् । अभिधाया अन्वितार्थविषयत्वस्य ५ पराकरिष्यमाणत्वात् । अथ यद्येवं कारणद्वयमप्याकांक्षायाः पराक्रियते तर्हि किंनिबन्धनाऽसौ भवतु । भवद्भिरपि तावदेषाऽभ्युपगन्तव्यैव । परप्रतिपत्तये हि वचनमुच्चार्यते । परश्च गामित्युक्तेऽवश्यमाकाङ्क्षयर्थान्तरं यत्र च न तदाकासा तत्र तदुचारयन्तो लौकिकाः परीक्षका वा उन्मत्तवदुपेक्ष्यन्त इति । उच्यते । अभिधेयापर्यवसाननिबन्धनैवेय- १० माकाङ्क्षा । गामित्युक्ते हि गोशब्दाभिहितोऽर्थो न क्रियां कर्तारं चान्त. रेण पर्यवस्यतीति प्रतिपत्ता तौ जिज्ञासते । इयाँस्तु त्वन्मताद्विशेषः । त्वन्मते हि प्रत्ययान्वितः प्रकृत्या स्वार्थोऽभिधीयते । अस्मन्मते त्वनन्वित एव । यत्पुनरूचे, सा चेयमाकाङ्क्षा प्रतियोगिनीत्यादि । तदस्माकमपि सम्मतमेव । यदप्युक्तम् । द्वारमित्यादावध्याहृतेनाप्युद्धाट- १५ नार्थेन लोकेऽन्विताभिधानदर्शनादिति । तदपि त्वन्मतेनैव निराकृतम् । अर्थापत्तिप्रमाणतो ह्यर्थान्तराध्याहारस्त्वन्मते । सा च प्रमाणपरिदृष्टा
न्यथानुपपत्तिनिबन्धना 1 द्वारमित्यादौ च द्वारलक्षणस्यार्थमात्रस्य स्मरणगोचरत्वेन न प्रमाणपरिदृष्टत्वम् । ततः कथं तस्यार्थान्तरपरिकल्पनानिमित्तत्वम् । तन्निमित्तत्त्वे वा स्मरणस्यापि प्रामाण्याङ्गीकरण- २० प्रसङ्गः । न च श्रावणप्रत्यक्षगोचरस्य द्वारशब्दस्यान्यथानुपपद्यमानत्वम् । यतस्तस्यार्थापत्त्युत्थापकत्वं स्यात् । द्वारशब्दस्य स्वार्थविरह एवान्यथानुपपद्यमानत्वात् । यञ्चोक्तमाकांक्षावच्च सन्निधावपीत्यादि । तदपि सकलमनुकूलमेवास्माकम् । यच्च पूगीफलादिकमवलोकितमित्यादि दर्शनरहस्यमिति पर्यन्तं प्रत्यपादि । तदप्यसुन्दरम् । यतो येय- २५ मन्विताभिधानवादिभिरन्वितस्वार्थगोचरा शक्तिरुपेयते पदानां साऽ
"Aho Shrut Gyanam"