________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. १०
भिधायित्वमुच्यते तत्सर्वेषु श्रौतार्थेषु पदेष्ववसेयम् । गङ्गायां घोषो गौर्वाहीक इत्यादी तु लाक्षणिकगौणार्थपदप्रयोगे यदेव श्रीतार्थं पदं तदेवाऽन्विताभिधायकम् । इतरतु गङ्गादिकं प्रतियोगिनस्तटादेर्बुद्धावुपस्थापकमेव । तत्र तस्य वाचकत्वानवधारणात् । स्वार्थस्यापि तदा५ नीमवाचकमन्वयायोग्यत्वात् । किं तु तदर्थेन यत्स्वसम्बन्धि स्वसदृशं वा योग्यं च तटादिकं बुद्धावुपस्थाप्यते तेनान्वितं श्रौतार्थमेव पदं स्वार्थमभिधत्त इति दर्शन रहस्यमिति ।
६६८
1
अपि निरुपमपक्षपातपात्राण्यन्वितवस्त्वभिधास्वतिप्रगल्भाः || कथमन्वयशून्यमेवमेते प्रलपन्ति प्रसभं विमुक्तशङ्काः ॥ ५५२ ॥ तथा हि यत्तावत्पदार्थानेव प्रवानगुणतयेत्यादिकमवादि । तत्र पदार्थानां प्रकरणादिवशात्प्रधानगुणतया व्याप्तसमन्वयावस्थानां को नाम वाक्यार्थत्वं प्रतिपद्यते । यथैव हि परस्परसापेक्षाणां पदानामन्यनिरपेक्षा संहतिर्वाक्यं तथा विशेषणविशेष्यतया परस्परसापेक्षाणां पदार्थानामप्यन्यनिरपेक्षा संहतिर्वाक्यार्थ इत्युच्यते । यत्तक्तं तं च पदान्येवाकांक्षास१५ निधियोग्यतारूपोपधानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमशित इति । तत्रापि किं पदानि पृथक्पृथक्तं प्रतिपादयेयुः संहतानि वा । न ताव - त्पृथक्पृथक् । पादप इत्यादिपदमात्रोच्चारणे पदार्थमात्रप्रतीतेरेवानुभूयमानत्वात् । तदर्थाच्च प्रतिपन्नतिष्ठत्यादिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेः । तत्र पदस्य साक्षाद्व्यापाराभावात्तदर्थस्यैव तद्गमक२० त्वात् । परम्परया तस्य तत्र व्यापारे लिङ्गवचनस्य लिङ्गिप्रतिपत्तौ व्यापारोऽस्तु । तथा सति शाब्दमेवानुमानज्ञानं भवेत् । लिङ्गवाचकवच्छन्दालिङ्गस्य प्रतीतेः सैव शाब्दी । न पुनस्तत्प्रतिपन्नलिङ्गाद्नुमेयप्रतिपत्तिः । अतिप्रसङ्गादिति चेत् । तत एव पादपपदात्स्थानाद्यर्थप्रतिपत्तिर्भवन्ती शाब्दी माभूत् । तस्य स्वार्थप्रतिपत्तावेव पर्यवासि २५ तत्वाल्लिङ्गशब्दवत् । किंच पदानां पृथक्पृथग्वाक्यार्थाभिधाने देवदत्तो गामभ्याज शुक्लां दण्डेनेत्युक्तेऽनेकवाक्यार्थप्रत्ययप्रसङ्गः । संह
3
१०
"Aho Shrut Gyanam"