________________
६६७
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः सहिता हि भावना प्रबोधवती स्मृतिहेतुरङ्गीक्रियते । तस्याश्च प्रबोधो नाव्यभिचारनिबन्धन एव । साहचर्यमात्रस्यापि तन्निबन्धस्य पूगीफलादौ दर्शनात् । तच्च स्वार्थस्येव पदार्थान्तरस्याऽप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाशकं सहसैव स्मारयेदित्यपेक्षानपेक्षणदूपणप्रसक्तेर्न पदेभ्यः पदार्थमात्रस्मरणमुपपद्य इति । अत्रोच्यते। ५ अस्ति तावत्पदार्थधीः । सा चेन्न स्मृतिस्ताह कतमोऽयमस्तु । न तावप्रमाणम् । अनधिगतार्थबोधनं हि तदुपेयते । यदाहुः-" सर्वस्यानुपलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा " इति । न च पदार्थधीरनधिगतार्थगोचरा । न खलु सम्बन्धसमये समधिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थानुरूपेणाप्यतिरिच्यते । अनतिरिच्यमानश्च न स्वरूप- १० विज्ञानं प्रमाणयति । अत एवाहुः- परोक्षश्वानुभूतश्च यस्तन स्मृतिरिष्यते ॥ प्रमिते तु प्रसक्तत्वात्स्मृतेर्नास्ति प्रमाणता ॥१॥ इति, पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते” इति च । यञ्चास्याः पूर्वानुभवानुसारितयाऽपेक्षणलक्षणदूषणावतारकारणमन्वितार्थगोचरत्वं प्रसज्यते तन्न समीचीनम् । यतोऽभ्यासातिशयः संस्का- १५ रातिशयमाधत्ते । अभ्यासक्ती च पदस्थ स्वार्थेन साहचर्यानुभूतिर्यथा न तथाऽर्थान्तरेणेति । पदश्रवणात्स्वार्थविषय एव संस्कारः प्रबुध्यत इति स्मरणमपि तद्विषयमेव भवितुमर्हति नार्थान्तरविषयमिति । पदानि प्रथमं यथास्वं साहचर्यम्वरूपाणि स्मारयन्ति । तथा च स्मृतिसन्निहिताः स्वरूपमात्रेणार्या अर्थान्तराकांक्षापदैरन्विता अभिधी- २० यन्त इति न परस्पराश्रयम् । तदुक्तम्---" स्मृतिसनिहितैरेवमर्थैरन्वितमात्मनः ॥ अर्थमाह पदं सर्वमिति नान्योन्यसंश्रयम् ॥१॥" स्वार्थरूपस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपि भवत्येव सन्निहितमिति नास्तीतरेतराश्रयम् । यच्चेदं सर्वपदानामन्विता
१ मी. श्लो. सू. ५ औ. सूत्रे श्लो. १५. १ २ मी. श्लो. सू. ५ शब्दप. लो. १०३, १४, १०७.।
"Aho Shrut Gyanam"