________________
६६६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० व्यक्तिर्मीमांसा न्यायकारिता ।। प्रलीयन्ते समस्ताश्च वेदवाक्यार्थसंशयाः ॥ २॥” इति । अत एव च मीमांसाया वेदवाक्यार्थप्रतिपतावितिकर्तव्यतात्वम् । तदुक्तं तैरेष—“ धर्मे प्रमीयमाणे हि
भेदेन करणात्मना ।। इतिकर्तव्यतामागं मीमांसा पूरयिष्यति" ५ ॥ १॥ इति । धर्म इति वेदार्थे । ननु लोके दागेव वाक्यार्थनिश्चयो
नेयती सामग्रीमपेक्षते । उच्यते । अत्यन्ताभ्यस्ते वाक्यार्थे स्यादेतदेवमदृष्टपूर्वेषु तु स्मृत्यादिवाक्यार्थेषु लोकेऽपि नानाविधविवादोत्थानात्कुतो दागेव निश्चयः । अपि च प्रयोजनाभावेनापि लोकस्याऽयं विवेको
नास्ति । वाक्यज्ञास्तु विविंचते । तदुक्तम् - " बहुजातिगुणद्रव्यकर्मभे१० दावलम्बिनः ।। प्रत्ययात्सहसा जाताच्झौताल्लाक्षणिकात्मकात्
॥१॥ न लोकः कारणाभावान्निर्धारयितुमिच्छति ॥ बलाबलादिसिद्धयर्थं वाक्यज्ञास्तु विविश्वते ॥२॥" अथैवं सिद्धान्ते स्मृतेः पूर्वानुभवानुसारितयाऽर्थगोचरप्राप्तावपेक्षानपेक्षणलक्षणदूषणावतारः । तथा हि, न पदं पदार्थमात्रे क्वचिद्दष्टचरप्रयोगो येन तत्साहचर्येण तन्मानं स्मारयेत् । तन्मात्रेण व्यवहारायोगाव्यवहारोपयुक्त वाच्च पदोच्चारणस्य । किं त्वन्विते स्वार्थे । तथा च गामानयत्यत्रानयनान्वितस्वार्थो गोशब्दस्तेन सह चरितो दृष्टो गां पश्येत्यत्रापि तदन्वितमेव गां स्मारयेन्न तन्मात्रम् । एवं च स्मर्यमाणेनानयनेन दर्शननिरपेक्षीकृतो गोर्न
पश्येत्यनेनान्वियात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थे पश्य२० पदं तेन सहचरितं दृष्टं गां पश्येत्यत्रापि प्रासादान्वितमेव दर्शनं
स्मारयेन्न दर्शनमात्रम् । तथा च स्मर्यमाणेन प्रासादेन गोनिराकांक्षीकृतं पश्यपदं न गवा सम्बध्येतेति सर्वत्र वाक्यार्थप्रत्यये दत्ता जलाञ्जलिः प्रसज्यते । अथ गोशब्दो गोलक्षणमर्थं न व्यभिचरत्यान
यनादिकं तु व्यभिचरतीत्यव्यभिचाराद्गामितिपई स्वार्थमेव स्मारयति २५ न तु पदार्थान्तरं व्यभिचारादिति चेत् । तदसाम्प्रतम् । पद्धत्या
१ मी. लो. सू. ५ सं. आ. श्लो. २५, २६, २७.
"Aho Shrut Gyanam"