________________
परि. ४ स. १.] स्याद्वादरलाकरसहितः पदानि स्वार्थमन्वितमभिदधतीति । अथानभिहितेनैवाऽर्थान्तरेणान्वितमर्थमभिदधीत पदमभिहितेन वा । तत्रानभिहितार्थान्तरान्विताभिधाने पदादेकम्मादेवोच्चरिताद्विवक्षितार्थप्रतीतेचैयर्थ्यमितरेषाम् । अभिहितार्थान्तरान्विताभिधाने तु परस्पराश्रयम् । तथा हि । तावत्पचेदित्यनेनाभिहितार्थान्तरान्वितः स्वार्थो नाभिधानीयो यावदुखायामित्यनेनाधिकरणमुखा नाभिधीयते । एवमुखायामित्यनेनापि तावत्स्वार्थों नाभिधानीयो यावत्पचेदित्यनेन स्वार्थो नाभिधीयत इति । न च पदानि प्रथमं स्वार्थमात्रमभिदधति तदनु चान्वितं स्वार्थमिति कुतः परम्पराश्रयप्रसङ्ग इति वाच्यम् । कल्पनागौरवात् । नापि लौकिकाः परीक्षका वा पढेभ्यः पदार्थमात्र प्रतीत्य पश्चादन्वितमर्थ तेभ्य एवाव- १० बुध्यन्त इति । द्विरभिधानमननुभूयमानं कथं कल्प्यतामिति चेत् । तदखिलमफलमवाचि । परसिद्धान्तानवबोधात् । यथा पूगीफलादिकभवलोकितं साहचर्यात्पत्रादीन्स्मारयति तथा पदजातमपि श्रुतं सद्यथास्वं स्वाभिधेयान्यभिदधानमेव साहचर्यादर्थरूपाणि स्मारयत्यनन्तरं तु तान्यन्वितान्यभिधत्त इत्येष एव हि नः सिद्धान्तः । तत्र १५ चोक्तदोषानवकाश एव । तदुक्तम्-" पदजातं श्रुतं सच्च स्मारितानचितार्थकम् ॥ न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥१॥" न्यायसम्पादितव्यक्तीति लोकव्यवहारानुवर्तिभिः प्रकरणादिन्यायैर्यावदिदं विधीयमानमिदमनुवाद्यमिदं गुणभूतमिदं विवक्षितमिदमविवक्षितमित्यादिका व्यक्ति वधार्यते तावन्न कश्चिद्वेदवाक्यार्थमवबुध्यत इति २० वृद्धव्यवहारनियन्त्रितायां शब्दार्थावगतौ ये न्याया वृद्धव्यवहारे वाक्यार्थीवगतिहेतुतयां विदितास्तानपरित्यजता वाक्यार्थो बोद्धव्य इति । तदुक्तं वार्तिककारैः-" तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत्।। यावन्न वचनव्यक्तिस्तस्य स्पष्टाऽवधार्यते ॥ १ ॥ ज्ञाता च वचन
१प्र. पं. चा. मा. वृ. पृ. १५ ५ १२ । २ . तावदेव' इत्यत: ' अपेक्षते' (पृ. ६६६ पं. ६.) इत्यन्तं पाठः प्र. पं. वा. मा. कृ. (पृ ५५ ६.) किञ्चित्पाठभेदेन समुपलभ्यते।
"Aho Shrut Gyanam"