________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. १०
समीपस्याप्यनन्वयः । व्युत्पत्ती तेन शब्दानामाकांक्षाऽप्युपलक्षणम्" ॥ १ ॥ परिपूर्णेनेति पुत्रसम्बन्धान्निराकांक्षेण राज्ञा । योग्यस्य समीपस्येति पुरुषस्य । सा चेयमाकांक्षा प्रतियोगिषु सर्वेषु न सहसैव जायते किन्तु कारणोपनिपातक्रमेण । तथा हि क्रियायाः कर्त्तारमन्तरे५ णासम्भवादवगतौ कर्त्तारं प्रथममपेक्षते । स च निष्फलो व्यापारेण वर्त्तत इति फलापेक्षा | व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा । तदुक्तम् - " प्रतियोगिषु सर्वेषु नाकांक्षोदेति तत्क्षणात् || कारणोपनिपातानुपूर्वेण तु यथातथम् ॥ १ ॥ ” तत्क्रमेण चान्विताभिधानमपि क्रमेणैव । तदाह - " जिज्ञासा जायते बोद्धुं १० सम्बन्धिषु यथा यथा || तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥ १ ॥ " । कः पुनः सन्निधिः, आकांक्षानन्तरं बुद्धौ विपरिवृत्तिः । स च न शब्दनिवर्तन एवान्विताभिधानव्युत्पत्तावुपलक्षणम् । द्वारमित्यादावध्याहृतेनाप्युद्घाटनाद्यर्थेन लोकेऽन्विताभिधानदर्शनात् । आकांक्षावच्च सन्निधावपि सन्निधायकक्रमेण क्रमो वेदितव्यः । तदन्विता१५ भिधानमपि तथैवेति । यदाह – “ सन्निधिः शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम् || अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥ १ ॥ सहसैव स सर्वेषां सन्निधिः प्रतियोगिनाम् || सन्निधायक सामग्री - क्रमेण क्रमवानसी || २ || यथा यथा सन्निधानं जायते प्रतियो गिनाम् । तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥ ३ ॥ इति । किं पुनरिदं योग्यत्वं नाम । यत्सबन्धार्हलम् । मुख्यवृत्तीनां च प्रयोगे योऽर्थो यत्र सम्बन्धित्वेनोपपद्यते स तत्र सम्बन्धार्हो योग्य इत्युच्यत इति वचनात् । सम्बन्धार्हमिदमिदमिति कथमवगम्यते । सम्बन्धित्वेन दृष्टत्वात् । तत आकांक्षादित्रितयवशात्प्राप्त व्युत्पत्तीनि
"
२०
६६४
१' चोदुम्' इति ग. पुस्तके पाठ: । २ 'आकांक्षावच ' इत्यतः 'दृष्टत्वात् ( पं. २३ ) इत्यन्तं प्र. पं. वाक्यार्थमातृकावृत्तौ (पृ. ९५ ) किचित्पाठभेदन समुपलभ्यते ।
"Aho Shrut Gyanam"
,