________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः लब्धान्योन्यसमन्वयान् ॥ पदार्थानेव वाक्याथ सङ्गिरन्ते विपश्चितः ॥ १॥" तं च पदान्येवाकांक्षासन्निधियोग्यतारूपोपधानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमीशते । तथा हि-आकांक्षा प्रतिपतुर्जिज्ञासा । सा च प्रकृत्यर्थानतिरिक्तप्रत्ययार्थे पदेऽभिधातृव्यापारापर्यवसायाद्भवति । यथा दारा इति । न ह्या प्रकृत्यातिरिक्ते प्रत्य- ५ यार्थे प्रतीतियेनान्वितः प्रकृत्या स्वार्थोऽभिधीयते । प्रातिपदिकार्थमात्रे प्रत्ययोत्पत्तेः । अन्वितार्थाभिधायिता वृद्धव्यवहारव्युत्पत्तिवशेन पदानामवधारितेत्यन्विताभिधानपर्यवसानाय प्रतियत्तारः पदार्थान्तरं प्रगल्मन्त इत्यादिकं च स्मारितदाररूपार्थान्वययोग्यं जिज्ञासते । प्रकृत्यातिरिक्तप्रत्ययार्थे तु पदेऽभिहितार्थापर्यवसानाद्भवत्याकांक्षा । यथा १० गामिति गच्छतीति च । अत्र हि प्रकृत्यातिरिक्तेऽर्थे कर्मशक्तौ वर्तमाने काले च प्रत्यययोर्विधानापर्यवसितमन्विताभिधानं न पर्यवस्यति त्वमिहितार्थक्रियामानयेत्यादिकां कर्तारं च देवदत्त इत्यादिकमन्तरेणेत्यत्राप्यभिहितार्थपर्यवसानायास्ति तदन्वययोग्यार्थान्तरजिज्ञासा । तथा चोक्तम्- 'अन्वितस्याभिधानार्थमुक्तार्थघटनाय च ॥ १५ प्रतियोगिनि जिज्ञासा या साकांक्षेति गीयते ॥१॥” सा चेयमाकांक्षा प्रतियोगिनि भवन्तीत्युत्पत्ती निमित्तमाश्रीयते । किमिति पुनः सन्निधियोग्यते एव नाश्रीयते । निराकांक्षाणामन्विताभिधानादर्शनात् । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति हि पुत्रसम्बन्धेन निराकांक्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरनयोः पुत्रपुरुषयोः २० सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुरुषेणेति । उच्यते। न्यायसापेक्षत्वाद्वाक्यार्थप्रतीतेर्नित्यसापेक्षेण पुत्रेणैव राजा सम्बन्ध्यते । तत्सम्बन्धनिराकांक्षश्च न पुरुषसम्बन्धमनुभवति । आकांक्षाऽपि व्युत्पत्तावुपलक्षणमाश्रीयते । तथा चोक्तम्-" परिपूर्णेन योग्यस्य
१ इत्यतः ‘भन्विताभिधानदर्शनात् '(पृ. ६६४ पं १३ ) इत्यन्तं किश्चिःपा. ठभेदेन प्र. पं. वाक्यार्थमातृकावृत्तौ (पृ. ७ पं. १६ ) समुपलभ्यते ।
"Aho Shrut Gyanam"