________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ४ सु. १०
समर्थयिष्यमाणत्वात् । यच्चाभाणि यतश्च शब्दात्मनः स्वतो न भेदोऽपि त्वभिव्यञ्जकवशादित्यारभ्य स्फोटात्मा नैव भियत इत्यवसानं नैषाऽपि भर्तृहरिप्रथितग्रन्थकन्था श्रद्धा रुद्धान्तः करणानां वैयाकरणानां भणितिः प्रामाणिकपरिषद् प्रमोदयति । अभिव्यञ्ज कनादापनोदस्योप५ रिष्टाद्विधास्यमानत्वात् । एतेन ध्वनिग्रहणे च त्रयो वादा इत्यादि स्फोटस्याभिव्यक्तौ त्रयो दर्शनभेदा इत्यादि च स्वदर्शनाभिनिवेशमदिरोन्मादपराधीनस्य परस्याभिव्यञ्जकधार्यम् । अपि च साऽभिव्यक्तिः स्फोटादव्यतिरिक्ता व्यतिरिक्ता वा ध्वनिभिः क्रियेत । अव्यतिरेके तत्करणे स्फोट एव कृतो भवेत् । तथा चाऽस्यानित्यत्वानुषादभ्युप१० गमक्षतिः । व्यतिरेके सम्बन्धानुपपत्तिः । अनुपकारकत्वात्तस्याः । तदुप
कारकत्वे वा तदुपकारकस्यापि ततो व्यतिरिक्ताव्यतिरिक्तविकल्पप्रसङ्गेनानवस्था प्रसज्यते । न च व्यतिरिक्तधर्म्मसद्भावेऽपि स्फोटस्यानभिव्यक्तस्वरूपापरित्यागे पूर्ववदर्थेऽप्रतिपत्तिहेतुत्वं घटते । अतिप्रसङ्गात् । तत्त्यागे चानित्यत्वप्रसक्तिरिति ।
ततः पौगलिको वर्णस्तत्सङ्घातः पदं तथा । तत्संहतिः पुनर्वाक्यमिति सङ्गतिमङ्गति ।। ५५० ।। स्फोटस्यात्र प्रकटनविधौ दोहदं मुञ्च साधो तस्माद्वैयाकरणसदृशं व्योमपुष्पाभिसन्धिः || सिद्धं न्यायादवयवचितं शब्दमेतं श्रयस्व
६६२
१५
ܘܪ
स्पृष्टा सा चेत्कचन परिषन्यायमुद्रास्थितानाम् || ५५१ ॥ ननु भवन्तु वर्णपदवाक्यानि यथाभिहितानि, एतत्तु निपुणधिषणैनिरूपणीयं कीदृशोऽयं वाक्यार्थः किं चैनं प्रत्याययितुमीष्ट इति । तत्र पदार्थानेव प्रधाननम् । गुणतया प्राप्तपरस्परव्यतिषङ्गान्वाक्यार्थ प्रति
अन्विताभिधानवादिप्रभाकरमतस्योपपद्य खण्ड
२५ पादयन्ति प्राभाकराः । तदुक्तं शालिकेन- " प्रधानगुणभावेन
१ प्र. पं. वाक्यार्थमात्रावृत्तिः पृ. २ पं. ७ ।
" Aho Shrut Gyanam"