________________
परि. ४ सू. १० ]
स्याद्वादरत्नाकर सहितः
न्त्यध्वनिबुद्धौ प्रथमावृत्तावपि स्फुटतरं प्रतिभासेयाताम् । अथाशक्ताः प्रतिपत्तारः पुनः पुनरेव तादृशैर्ध्वनिभिर्व्यक्तौ सन्तावेतौ प्रत्येतुं पारयन्तीति चेत् । अनुचितमिदम् । यतो यः खलु इदं दीपशतेनैकेना| मिव्यक्तमालोकितुमशक्तो नासौ तादृशेनापरेणानेकेनापि दीपशतेनाभिव्यक्तं तदवलोकितुं क्षमः । अन्धाभावप्रसक्तेः । निरस्तश्चेदानीमेव ५ निरवयवस्य स्फुटोsस्फुटश्चावभासः । यश्च यथा ज्ञानस्येत्यादिदृष्टान्तः सोऽपि न पेशलः । सावयवादात्मनः कथंचिदभिन्नत्वेन ज्ञानस्यापि सावयवत्वात् । यदपि नियताश्च पदार्थानामित्याद्यकथि तदपि न तथ्यम् । इत्थं हि महीरुहादावपि मूलस्कन्धशाखादिक्रमो माऽभ्युपेयताम् । तत्रापि बुद्धिक्रममन्तरेण महीरुहादिप्रतिपत्तौ प्रतिपतॄणामश- १० क्त्या क्रमव्यवस्थायाः कर्तुमशक्यत्वात् । यच्चावाचि नित्यश्चासावभ्युपगन्तव्य इत्यादि तदप्याकाशकुसुम दामोत्तंसाशंसनमिव । नित्यैकान्तस्यानेकान्तसिद्धौ प्रतिक्षेप्यमाणत्वात् । यच्चोतं खङ्गे हि मुख प्रतिबिम्बितमित्यादि तदपि मृगतृष्णापयःपानपाणिपल्लवप्रसारणमित्र । खङ्गमुखप्रतिबिम्बयोः कार्यकारणरूपत्वेनाभिव्यङ्गयाभिव्यञ्जकभावस्यै- १५ वासम्भवात्तत्राभिव्यङ्गयाभिव्यञ्जकाभिधानानुपपत्तेः । यदप्यथ मुखा - दिभ्य इत्याद्याशंक्यात्यल्पप्रमाणेत्यादिना निराकृतम् । तदपि न कृतधियामवधेयम् । अनभ्युपगमात् । मण्यादिषु हि न महाप्रमाणाः पर्वतादयोऽभ्युपगम्यन्ते किन्त्वल्पप्रमाणा एवेति । यच्चावाचि तथाभ्युपगमे हीत्यादि तदपि न चेतस्विचेतोहरम् । एवं स्तङ्गते गभस्तिमालिनि २० क्षणमप्यनुपलभ्यमानः प्रतापोऽपि न तस्य कार्यं स्यात्, किन्त्वभिव्यङ्गय एवेति । एवं च प्रतिबिम्बस्य न तावत्कालिकोत्पादे प्रताप एव निदर्शनम् । ततश्चाथ तावत्कालिक इत्याद्याशंक्य सुवर्णादिद्रव्यभावा हीत्यादिना यत्समाहितं तत्सर्वमनभ्युपगतोपालम्भमात्रमित्यवसेयम् । यत्पुनरादर्शादिमण्डलं प्रतिबिम्बोदयकाले नष्टं प्रतिबिम्बमेव २५ तत्रोत्पन्नमित्याद्युक्तम् । तदपि नावदातम् । प्रतिबिम्बोत्पतेर्निरवद्यतया
I
४२
" Aho Shrut Gyanam"
६६१
1