________________
६६०
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सु. १० स्यात् , स्वमतावमानना च । अथ वर्णस्फोटाद्विभिद्यमानमूर्तीस्तदवयवान्न कापि प्रतीमस्तरकथमिव तत्स्फोटाँस्तात्त्विकानुररीकुर्मह इति चेत् । तस्किमिदानी प्रतीतिमपि प्रमाणतया प्रतिज्ञानीषे । ओमिति
चेत् । हन्त तर्हि पदादौ वर्णादिप्रतीतिरस्तीति किमिति न तत्र ५ वर्णादिस्तिवः स्वीक्रियते । अथोक्तमशक्तास्तादृशं पदादिस्फोटं
प्रत्येतुं प्रतिपत्तारो वर्णादिप्रतीतिमन्तरेणेति तत्प्रतीत्युपायोऽसावसन्नेव तत्र वर्णादिगुह्यतेऽतोऽसत्य एवायमुररीक्रियत इाते चेत् । नन्वेवमपि वक्तुं शक्यते । वर्णावसायमन्तरेणावयवानवसातुमशक्ताः
प्रमातार इति वाक्यस्फोटे पदबदुपायभूत एव तत्रासन्नपि वर्णो गृह्यत. १० इत्यसत्य एवायमवयवास्तु सत्या इति । यदपि "विचालरूढा हि भवन्ति
निश्चलाः" इत्य, न्यायं निधाय चेतोघानि, अथ भवत्वयं निरवयव इत्यादि प्रश्नं तदपि न तर्ककर्कशेत्यादिसमाधानं च भवानभ्यधात् । तदपि न सुधियामवधानार्हम् । यतः कः खलु विचारमार्गासञ्चरिष्णु
ध्वनिमनभिगम्यमानो मनस्वी स्वप्नेऽपीदृशमाशङ्कते, उत्तरं वा स्वीकुरुते। १५ किंच, निरवयवस्य वर्णादेदृश्यमानस्य न कश्चिद्भागोऽदृश्यमानोऽस्ति
यदपेक्षयाऽस्फुटं दर्शनमस्योपपद्यते । यथोभयसम्प्रतिपन्नस्थाण्वादेः । अपि चावृतस्य सतोऽभिव्यक्तिः सम्भवति । नित्यनिरंशस्य चावरणं मीमांसकाभिमतवर्णनित्यत्वपराकरणप्रकरणे पराकरिष्यते । यच्च यथा
ह्यनुवाकः श्लोको वेत्यादि निदर्शनमुक्तम् । तदप्ययुक्तम् । यतोऽनु२० वाकश्लोको सावयवौ वा स्यातां निरवयवौ वा । प्रथमपक्षे वैषम्यम् ।
अनुवाकादौ हि सावयवत्वात्स्फुटोऽस्फुटश्चावभासो युज्यते । स्फोटे तु निरवयवत्वान्न तौ सम्भवत इति । अपसिद्धान्तप्रसङ्गश्चास्मिन्पक्षे वैषम्यम् । श्लोकानुवाकयोरपि स्फोटरूपत्वेनाभ्युपगतयोर्भवच्छास्त्रे निर
वयवत्वेनाभ्युपगतत्वात् । द्वितीयविकल्पे तु देवदत्त गामभ्याजेति २५ वाक्यस्फोटवदेतावपि पूर्वपूर्वध्वनिजनिताभिव्यक्तिकृतसंस्कारविशेषाव
१ स्थूणानिखननन्यायसमानार्थकोऽयं न्यायः ।
"Aho Shrut Gyanam"