________________
स्याद्वादरत्नाकरसहितः
५
अतिप्रसङ्गात् । अतो ज्ञातस्तद्धेतुरेषितव्यः । ज्ञानं चास्यार्थप्रत्ययलक्षणलिङ्गप्रभवमिति यावन्नार्थप्रत्ययस्तावन्न स्फोटज्ञानं यावच्च नेदं न तावदर्थप्रत्यय इति । अर्थप्रतीत्यन्यथानुपपत्त्या वा स्फोटस्य कल्पने शब्दत्वं तत्र दुरुपपादम् | शब्दशब्दप्रयोगाभावप्रसङ्गात् श्रोत्रग्राह्यर्थे लोके शब्दः प्रयुज्यते । अर्थप्रत्यायकत्वमात्रेण च स्फोटस्य शब्दत्वोपगमे धूमध्वजप्रभृतिकं प्रत्याययतो धूमादेरपि शब्दत्वं भवेत् । अगृहीतगोशब्दसङ्केतस्य च नालिकेरद्वीपनिवासिनो गौरिति शब्दश्रवणसमनन्तरं यावन्न कश्चनार्थविशेषः समुन्मिषति तावदश्रुतपूर्वोऽयं गोशब्दो न जाने की दृगस्यार्थ इति वक्तुमपि न पारयेदसाविति हता बत लोकयात्रा । यदप्यथ यथेत्याद्याशङ्कय यतो वर्णपूर्वाद्यचयवे - १० त्यादिना समाहितम् । तदपि नावदातम् । यथा खल्ववयवग्रह मपहाय नेह निरवयवः स्फोटः प्रत्येतुं पार्यत इत्यसन्तोऽपि तम्हणोपायभूतास्तस्यावयवा: परिकल्प्यन्ते 1 तथा कचित्कदाचित्कैश्चित्परोक्षोऽर्थो न शब्दप्रतिपत्तिमन्तरेणावसातुं शक्यत इति शब्दोऽप्यसनेचार्थग्रहणहेतुत्वात्परिकल्प्यत इत्यपि प्रसज्यते देवानांप्रियस्य । यदपि न च भागावसायिन्य इत्याद्याशङ्कयाराद्वनस्पतावित्यादिना समाहितं तदपि न चारु । न खलु दूरात्तरौ करिप्रत्ययपरम्परायाः सत्यतरुप्रतीत हेतुत्वम् । तथाविधसन्निधानादिसव्यपेक्षक्षयोपशम विशिष्टस्यात्मद्रव्यस्यैव तद्धेतुत्वोपपत्तेः । अपि च, वर्णस्फोटं पदस्फोटं च यथाक्रमं पदवाक्यस्फोटाभ्यां पृथग्भूतम्, अत एव शुद्धपदव्यपदेश्यं वस्तु- २० सन्तं क्वचित्प्रतिपद्य पदवाक्यस्फोटयोः काल्पनिकं तमुररीकरोमीति वदन्तं त्वां न कश्चित्प्रतिरुणद्धि न रुणद्धि वा । वर्णस्फोटावयवा नामवास्तवत्वमुपदिशन्तं पुनः पर्यनुयुज्महे महोपाध्यायम् । यथा किल पदस्फोटात्पृथगेव वर्णस्फोट : पारमार्थिकोऽभ्युपगम्यते तथा कथं वर्णस्फोटा द्विभिन्नोऽवयवस्फोटोऽपि नोपेयत इति । तदुपगमे २५ 'पूर्वोपपूर्व प्ररोपपराद्यवयवस्फोटपरम्पराऽनुभव भुवमनवर्तार्णा परिकल्पिता
१५
परि. ४
४ सू.
१.]
" Aho Shrut Gyanam"
६५९