________________
६५८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० न स्याद्वादिनाम् । तैर्यथाप्रतीति कथञ्चित्तदभेदोपगमात् । एकानेकाकारप्रतीतरेकानेकाकारस्य जात्यन्तरस्य व्यवस्थितेः । न हि वर्णाद्याकर्णनसमनन्तरमेकानेकाकारप्रतीतिरनालम्बना युक्ता । सर्वत्र सर्वदा सद्भावप्रसङ्गात् । नाप्यवयवमानहेतुका । एकत्वांशविरोधापत्तेः । ततो ५ वर्णाद्याकारपरिणतद्रव्यशब्दहेतुकेयं प्रतीतिस्तत्त्वं तथा परिणतशब्दवाच्यं तात्त्विकानेकप्रतीकाकलिकालवरम् । अत एवैकानेकाकारं सिद्धम् । बाधकाभावात् । यच्च · पूर्वादिभागवर्णपदरूपावयवावसायः पुनरभिव्यञ्जकानां ध्वनीनां धर्मानुविधानादित्याद्युक्तम् । तदप्ययुक्तम् । ध्वनीनां भट्टाभिमतवर्णनित्यत्वैकान्त१० विकुट्टनावसरे सविस्तरमपाकरिष्यमाणत्वात् । यदपि वर्णाद्यवयवा
घमासासत्यत्वप्रदर्शनार्थ मुखमिव मणिकृपाणेत्यादिनिदर्शनमदर्शि तदपि दाान्तिकेन सह वैषम्यात्स्वसिद्धान्तश्रद्धान्तःकरणस्य भणनमात्रम् । वस्त्वन्तरमेव हि प्रतिबिम्बाख्यं तात्त्विकानेकतथाविध
धर्मोपेतं प्रतिबिम्बकारणबिम्बाख्यमुखविलक्षणं मणिकृपाणदर्पणादि१५ घूत्पद्यते। न तु तदेव मुख खड्गतैलोदकदर्पणादयस्तथा तथा प्रथयन्ति ।
प्रतिबिम्बस्य च तात्त्विकत्वमुपरिष्टान्निर्णेष्यामः । यदपि चात्मनःप्रौढिप्रदर्शनार्थमुदाहरणान्तरं यथा च दूरदेशे समन्धकारे वेत्यादिना प्रकीर्तितम् । तदप्यकीर्तिकरम् । दूरदेशावस्थितस्य हि विरलपदार्थस्य
घनरूपताप्रतीतिरुत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन बाध्यत २० इति तत्र घनत्वप्रतीतिवशाब्यवस्थाप्यमानं घनत्वमस्त्ववास्तवं कः
किमाह । वर्णाद्यवयवावभासस्य तु नोत्तरकालिकं बाधकं किञ्चिच्चेतयामः । तत्कथमिव तद्वशासिद्धपद्धतिमनुधावन्तो वर्णाद्यवयवाः । न हि निरवयवं स्फोटं नाम किश्चित्वचन कदाचनापि प्रतीमो येन
तबलेन वर्णाद्यवयवान्प्रत्याचक्ष्महे । अथार्थप्रतीत्यन्यथानुपपत्त्या २५ स्फोटः प्रतीयत एवेति चेत् । एतदपि दुरुत्तरेतरेतराश्रयप्रसङ्गप
राहतम् । न खलु सत्तामात्रेण शब्दोऽभिधेयधियमाधातुमर्हति ।
"Aho Shrut Gyanam"