________________
परि. ४ सू.१०] स्याद्वादरलाकरसहितः
अर्थावबोधप्रवणस्वभावं बिभार्ति भागोज्झित एव शब्दः ॥ स्फोटाभिधानोऽभिहितस्वरूपः प्रमाणवी भ्रमणकपान्थः ॥५४७१.
ततः पौगलिको वर्णस्तत्सङ्घातः पदं तथा ।। तत्संहतिः पुनर्वाक्यं कथं सङ्गतिमङ्गति ।। ५४८ ।। तावद्दष कलयति करी शब्दकुट्टाकनामा
गर्जन्गाढस्वरमिह लसत्तर्कशुण्डाप्रचण्डः ।। यावन्नायं जिनपतिमतस्फारलालधारी
न्यायोत्फालं वितरति हुताद्भिषणो जैनसिंहः ।। ६४९ ।। तथा हि-यत्ताववादि यः खल्वयं पूर्वापरेत्यादिकं निर्बाधमध्यवसीयते स्फोटा इति पर्यवसानम् । तद्नुपपद्यमानम् । यथोपवर्णित- १०. स्वरूपस्य वर्णादिस्फोटत्रयस्य स्वप्नदशायामप्यननुभवात् । स्वकीयपूर्वापरावयववतां वर्णपदवाक्यानामेव सर्वैरबाधितबोधेन प्रतीयमानत्वात् । अवयवाश्चैषां वास्तवा एवेति स्वीकर्तव्यम् । अविद्योपकल्पितत्वाङ्गीकारे हि तेषां परमब्रह्माद्वैतमताश्रयणप्रसङ्गेन लाभमिच्छतो मूलोच्छेद एव भवतः प्रसज्यते । यथैव हि वर्ण एक एव तद्धागानामवास्तव- १५. त्वात्पदमेकमेव तद्वर्णानामतात्विकत्वाद्वाक्यं चैकमेव तत्पदानां सांवृत्तत्वात् । तथैवांतशः परमब्रह्मैवैकं सकलवाक्यतदर्थं तस्य प्रमाणप्रमेयप्रपश्चस्य च प्रतिभासमात्रान्तःप्रविष्टस्याविद्योदयविजृम्भितत्वादिति । तदनिच्छता तात्त्विकानेकभागसङ्गतं वर्णादिवादमादरणीयमायुष्मतेति । ननु वर्णादिकं स्वावयवेभ्योऽर्थान्तरमनर्थान्तरं वा भवेत् । अनन्त- २० रत्वे त्वनेकत्वमेव स्यात् । प्रतिमागं समस्तार्थप्रतीतिप्रसङ्गश्च । अर्थान्तरत्वे सम्बन्धासिद्धिः । अनुपकारात् । उपकारकल्पनायां वर्णादेरवयवकार्यत्वप्रसङ्गः । तैरुपकार्यत्वात् । अवयवानां वा वर्णादिकार्यतापत्तिः । तेनोपक्रियमाणत्वादुपकारस्य ततोऽनन्तरत्वात् । अर्थान्तरत्वे सम्बन्धासिद्धिरनुपकारात् । तदुपकारान्तरकल्पनायामनवस्था- २५. प्रसङ्ग इति चेत् । सोऽयं वर्णादितदवयवभेदाभेदैकान्तवादिनामुपालम्भो
"Aho Shrut Gyanam"