________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० काष्टादिकारणजन्यस्तु स्तम्भादिरित्यनयोर्मेदो व्यवस्थाप्यते तथेहापि ताल्वादिकारणजन्योऽयं ध्वनिर्नित्यत्वादकार्यश्च स्फोट इत्यनयोभेदोऽवस्थाप्यते न तु भेदेन ग्रहणम् । केवलमिदमेव सम्भवति, आलोक
परिकल्पिता विषयप्रतिपत्ति निविनिर्मिता तु स्फोटप्रतिपत्तिरि५ त्येके । यथेन्द्रियं विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयं किमप्यस्तीति
कार्यदर्शनादवस्थाप्यते तथा स्फोटोपलव्यन्यथानुपपत्त्या ध्वनिः कश्चिदत्यन्तपरोक्षोऽस्ति करणव्यापारज इत्यनुमीयते । स्फोटस्तु शुद्ध उपलभ्यते इतीतरे । अन्ये पुनः, यदा नाकारादिविशेषावगमः केवल
रुणरुणायितादिकरणे तदा स्वतन्त्रो ध्वनिः प्रतीयते । अकारादि१० व्यक्तवर्णप्रतीते तु स्फोटरूपेण संसृष्टः प्रतीयत इत्याहुः । यदुक्तम्
स्फोटरूपाविभागेन ध्वनेग्रहणमिष्यते ॥ कैश्चित् ध्यानरसंवेद्यः स्वतन्त्रोऽन्यः प्रकल्पितः॥१॥” इति । स्फोटस्याभिव्यक्ती त्रयो दर्शनभेदाः केचिदाहुः--'स्फोटस्यैव संस्कारो ध्वनिभिर्विधीयते ततोऽसौ प्रतीतिविषयो भवति । यथा तैलादेर्गन्ध आतपेन पृथिव्याश्चातपशुष्काया उदकेन संस्कृतो ग्रहणयोग्यो भवति घ्राणस्य । तत्र संस्कारोपगमे संस्कृतविषये तुल्यं ग्रहणं भवेन च भवति तस्माद्विषयस्यैव तत्र संस्कारः क्रियते ' इति । अन्ये पुनरिन्द्रियस्यैव संस्कार इति प्रतिपन्नाः । यथाञ्जनद्रव्यं चक्षुरेकं संस्करोति
न विषयं बाह्यमतिप्रसङ्गादतिप्रसिद्धमेतत् । इन्द्रियस्य स्कोटस्य च २० संस्कार इत्यपरे उररीकृतवन्तः । यथा वैशेषिकस्य प्राप्यकारिणि
चक्षुषि तुल्यजातीयेन तेजसा प्रकाशापरपर्यायेण नयनरम्यनुग्रह क्रियते विषयस्य च योग्यतेति । तदाह-" इन्द्रियस्यैव संस्कारो विषयस्योऽभयस्य वा । क्रियते ध्वनिभिर्वादास्त्रयोभिव्यक्तिवादिनाम्
॥१॥" इति ।। २५ एवं च
. १ वा. प. का. १ श्लो. ८२. २ वा. प. का. १ श्लो. ४९।
"Aho Shrut Gyanam"