________________
परि. ४ सू. १०]
स्याद्वादरलाकरसहितः
स्फोटात्मनि नाध्यस्यते ध्वनिकाल एवासौ गण्यते । न शब्दकालः । ध्वनयो हि विशिष्टाभिवातादुपजायमानाः केचिदनारब्धकार्या विलीयन्ते । कतिचिदेकं ध्वनि जनयित्वा नश्यन्ति । केचिदौ, केचिरहून् । ततोऽन्यः शब्दकालोऽन्यश्च ध्वनिकाल उच्यते । द्रुतायां वृत्तौ ये वर्णास्ते त्रिभागाविका मध्यमायां ये च मध्यमायां ते त्रिभा- ५ गाधिका विलम्बितायामिति यो भेदः स धनिभेद एवाभ्युपगम्यते । न शब्दभेदः । शब्दे तस्यानध्यासात् । तदुक्तम् -"सिदं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनात् वृत्तयो विशेष्यन्ते" इति । तेनातोऽभिशब्दे सेत्यादौ " तपरस्तकालस्य " इति वचनात्तपरेण निर्देशेन मात्राकाले प्रत्याय्यमाने परमार्थतः खटादिभिरित्यत्राप्येककालत्वाद्यक- १.. कारवर्णस्फोटस्य यद्ग्रहणं प्राप्तं तन्न भवति । प्राकृतध्वनिकालेन तत्रोपचरितेन भेदात् । द्रुतादिवृत्तिकालस्य तु स्फोटकालत्वेनाऽनाश्रितत्वात् । यस्यां कस्याञ्चिद्वृत्तावकारादेस्तपरत्वेऽभ्युपगते सर्ववृत्तिषु ग्रहणं सिद्धं भवति । तदाह-" स्वभावभेदान्नित्यत्वे हस्त्रदीर्घप्तादिषु ॥ प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ १॥ शब्दस्योर्च- १५ मभिव्यक्तेर्वृत्तिभेदं तु वैकृताः॥धनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥२॥" वृत्तिभेदमिति कालान्तरावस्थितिभेदं द्रुतादिरूपं शब्दस्य । समुपोहन्ते घटयन्ति । तैरिति विकृतैरिति । ध्वनिग्रहणे च त्रयो वादा: केचिच्छब्दरूपादविभक्तग्रहणं रूपादिवालोकं ध्वनि मन्यन्ते । इन्द्रियवदसंवेद्यमन्ये। स्वतन्त्रमपि कतिपये । तथा हि-ता- २० ल्वादिकरणसन्निपातजनितध्वन्यभिव्यङ्गयस्फोटरूपादविभागेन ध्वनिरूपप्रतीतिरिति न ध्वनि पि स्फोटः परस्परतो भेदेन ग्रहीतुं शक्यते । यथा प्रभाकरादिकारणजनितालोकाभिव्यङ्गयस्तम्भाम्भोरुहादिरूपादविभागेनालोकप्रतिपत्तिरिति नालोको नापि विषयरूपं परस्परतो विभागेन ग्रहीतुं पार्यते । यथा च प्रभाकरादिकारणजन्योऽयमालोकः १५
१ पा. भा. वार्तिक । २ पा. सू. १1१।७०. ३ वा. प. का. लो. ७६६७८ ।
"Aho Shrut Gyanam"