________________
६५४
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ४ सु. १०
भावानां नास्ति सम्भवः ॥१॥” इति । एवं च स्थितमेतत् , अभिव्यञ्जकधर्मानुविधायी शब्द इति । यतश्च शब्दात्मनः स्वतो न भेदोऽपि त्वभिव्यञ्जकवशात्तस्मादभिन्नकालेऽपि कालभेदादेव वर्णपदवाक्याख्यास्त्रयोऽपि स्फोटा नित्यत्वादत्यन्ताविद्यमानकालभेदाः । यस्त्वेषां ५ हस्वदीर्घप्लुतव्यपदेशयोग्यो मात्रिकादिस्वकालावगमो यश्च द्रुतादिवृत्तित्रये त्रिभागाधिकत्वेन भेदः स सर्वो नादानामभिव्यञ्जकानां तथा तथा भेदात् । यदाह---" तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु ॥ वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते ॥ १ ॥” इति । तथाकृता
हि ध्वनयः शब्देऽध्यस्यमानाः शब्दात्मना म्वकाल ताव्यवहारहेतवो १० भवन्ति । द्विधा हि ध्वनयः प्राकृता वैकृताश्च । तत्र प्राकृता नाम ते
येविना सामान्यविशेषरूपेण स्फोटात्मा प्रतीतिविषयं न याति । प्रतीतस्तूत्तरकालं यैः स एवायमित्युल्लेखेन चिरकालमुपलभ्यते ते वैकृता इत्युच्यन्ते । यदाह सहकारः-" शब्दस्य ग्रहणे
हेतुः प्राकृतो ध्वनिरिष्यते ॥ स्थितिभेदे निमित्तं चेद्वैकृतः १५ प्रतिपद्यते ॥ १॥” इति । यः प्रथम जातो ध्वनिस्तस्य मात्राका
लत्वात्तदुपचारेण तदभिव्यक्तः स्वतो निरवयवत्वादत्यन्तं पूर्वापरभागरहितः स्फोटात्मापि मात्राकाल इति व्यपदिश्यते । तन्निमित्ता च हस्वसंज्ञा शास्त्रे व्यवहाराय क्रियते । तदाह-"एकमात्रो भवेत न्हस्वः"
इति । यः प्रथमं जातो ध्वनिर्यश्च तज्जस्ताभ्यामभिव्यक्तः स्फोटोऽपि २० तयोर्द्विमात्राकालत्वादुपचारेण मात्राद्वयकाल इत्यपदिश्यते । तन्निमित्ता
च दीर्घसंज्ञा क्रियते । यदाह --"द्विमात्रो दीर्घ उच्यते” इति । प्रथमध्वनिजातध्वनेर्जातो यस्तृतीयो ध्वनिस्तेन पूर्वाभ्यां चाभिव्यक्तस्तेषां त्रिमात्राकालप्रमाणत्वादत्यन्ताप्रमाणोऽपि शब्दस्त्रिमात्र इत्युच्यते । तन्निमित्तां च प्लुतसंज्ञां लभते । तदुक्तम्--" त्रिमात्रस्तु प्लुतो २५ ज्ञेयः” इति । ततस्तु प्रभृति ये जायन्ते ध्वनयस्ते वैकृतास्तत्काल:
१ वा. प. का. १ श्लो. १०२. २ वा. प. का. १ श्लो. ७७ ।
"Aho Shrut Gyanam"