________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः
६५३ इति । अथैतत्स्यात् । अभिव्यञ्जकधर्मानुविधानमभिव्यङ्गयानां न दृष्टम् । न ह्यल्पे प्रदीपे घटादेरल्पत्वं महति महत्त्वमनेकस्मिन्वाऽनेकत्वमवलोक्यते । स्फोटस्य पुनरल्पनादेऽल्पत्वं महति महत्त्वमनेकस्मिश्वानेकत्वमतोऽयं कार्य एव न व्यङ्गय इति चेत् । मैवम् । यतोऽभिव्यङ्गयानामप्यभिव्यञ्जकधर्मानुविधानं केषाञ्चिदुपलभ्यते । ख) हि मुखं ५ प्रतिबिम्बितं दीर्घमुपलभ्यते ह्रस्वमक्षितारकादौ । संख्याभेदोऽप्यादर्शभेदे जलतरङ्गानेकत्वे च तथा तथानुवर्तमान उपलभ्यत एवेत्ययमपि न दोषः । अथ मुखादिभ्यो भावान्तरमादर्शादिषु सन्निवेशमुपलभ्यते न तु त एव मुखादयस्तत्र बिम्बिता उपलभ्यन्त इति चेत् । अवतुरस्रमेतत् । अत्यल्पप्रमाणेषु हि मण्यादिषु स्वच्छद्रव्यादिषु तदाधाररूपतयाऽवस्थितेषु १० महाप्रमाणानामवनिधरतुल्यरूपाणां तदन्तः सन्निवेशित्वेन भावानामुत्पत्तिः । तथाऽभ्युपगमे हि प्रतिबिम्बनिमित्तद्रव्यापनयनेऽपि प्रतिबिम्बरूपस्य भावान्तरस्य तत्रोत्पन्नस्यादर्शादौ तवोपलब्धिः स्यात् । शास्त्राद्यभिघातजनितकलङ्कवत् । अथ तावत्कालिक एवाऽसौ भावस्तत्रोत्पन्नो यावदवस्थानं प्रतिबिम्बनिमित्तस्य द्रव्यस्य तावदुपलभ्यते नोत्तरत्र । । सुवर्णादिद्रवभाव इवाग्निसंयोगादिति मतिः । विषमोऽयमुपन्यासः । सुवर्णादिद्रव्यभावो हि वहिर्मयोगविश्लेषानन्तरं स्तोककालमुपलभ्यते प्रतिबिम्ब पुनस्तन्निमित्तद्रव्यापनयनानन्तरं मुहूर्तमपि तदाधारेषु नोपलभ्यते । किञ्च, आदर्शादिमण्डलं प्रतिबिम्बोदयकाले नष्टप्रतिबिम्बमेव तत्रोत्पन्नं, प्रतिबिम्बरूपेण वा तदेव परिणतं, पुनश्च तस्मिन्नेव क्षणे २० प्रतिबिम्बनिमित्तद्रव्यापनयने प्रतिबिम्बभावान्तरमपि सन्नष्टमादर्शमण्डलं च पूर्वरूपसदृशमुत्पन्नं, प्रतिबिम्बमेव वा पुनरादर्शमण्डलरूपेण परिणतमित्येवमुपगमे प्रतिपक्षं वस्तुविनाशप्रसङ्गः । स च हेतुतोऽभाव. विनाशवादिनामनभिमतः । तस्मास्थितमेतन्न पर्वतादिसरूपा भावास्तत्रोत्पन्नाः किं तर्हि तदेव रूपमभिव्यञ्जकबलात्तथा प्रतीयत इति । यदाह--"विरुद्धपरिणामेषु वज्रादर्शतलादिषु ॥ पर्वतादिसरूपाणां २५
१ वा. प. कां. १ श्लो. १०१।
"Aho Shrut Gyanam"