________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० स्यात् । असङ्केतितत्वात् । असङ्केतिताच शब्दादर्थप्रतीतो सर्वस्य सकलशब्दार्थज्ञताप्रसक्तिः । सङ्केतकरणानर्थक्यं च भवेत् । ननु नियमस्तावदभिव्यञ्जकानामभिव्यङ्गयेषु न दृश्यते । घटाइयो हि सवेरेवाभिव्यक्तिहेतुभिः प्रकाशमानस्वभावैर्मणिप्रदीपौषध्यादिभिर्व्यज्यन्ते । ५ अयं तु स्फोटात्मा नियमादभिव्यङ्ग्यः । न हि गोशब्दस्य योऽभिव्यञ्ज
कः स एवाश्वशब्दस्यापि ध्वनिरिष्यते । किं तीत्यन्तविलक्षणो गोशब्दाभिव्यक्तिसामर्थेनासाधारणः । तस्मादत एव नियमाद्यवाङ्कुरादिवदस्य कार्यत्वमेव युक्तम् । तस्मिंश्च सत्यनित्यत्वमेव सङ्गच्छत इति
मैवं बोधः । यथा हि चक्षुरिन्द्रियमेव विषयरूपस्याभिव्यक्तौ निमित्त १० नेन्द्रियान्तरमिति व्यञ्जकनियमेऽपि विषयरूपस्य न कार्यत्वं तथा
स्फोटस्यापीति । तदुक्तम्- " ग्रहणग्राह्ययोः सिद्धा नियता योग्यता यथा ॥ व्यङ्गयव्यञ्जकभावोऽपि तथैव स्फोटनादयोः।।१॥" अथैवमुच्यते विषयरूपेन्द्रिययोस्तावन्नास्ति नियमः । रूपमात्रस्यानेक
जातिगुणभेदभिन्नस्य चक्षुषाऽभिव्यक्तेः । न तु स्फोटमात्रस्याभिव्य१५ क्तिरेकेन नादेनेति । अत्रापि प्रतिविधीयते । तुल्येन्द्रियग्राह्यवपि
विषयेश्वेष नियमो दृश्यते । यथा गन्धयुक्त्यादिषु । गन्धशैलेयादिद्रव्यं किञ्चिदेव कस्यचिदेव द्रव्यगन्धादेराभिव्याक्तिनिमित्तं भवति न द्रव्यमात्रमेवमिहापि नियत एव नादः कस्यचिदेव स्फोटस्याभिव्यक्तिहेतुरिति न दोषः । तदाह सदृशग्रहणानां प्रकाशकं निमित्तं नियतं २० लोके प्रतिद्रव्यमवस्थितमिति । स्यादेतन्न गन्धादयोऽभिव्यज्यन्तेऽपि तु
विशिष्टद्रव्यसंयोगाजायन्त इति । विषयमपि रूपं तहीन्द्रियालोकाभ्यां क्रियत इति नष्टो व्यक्तिवादः । न हि नीलादिरूपे प्रमाणमपरमस्ति येन ज्ञायेत प्रागेतस्थितमिति । स्पर्शेन तस्य ग्रहीतुमशक्य
त्वात् । विचित्रास्तु भावशक्तय इति किञ्चिन्च नियतव्यञ्जकव्यङ्ग्य २५ किञ्चिच्चानियतव्यञ्जकव्यङ्गयमिति को दोषः प्रतिनियतव्यचकव्यङ्गयत्व
१ वा. प. कां. १ श्लो. ९८।।
"Aho Shrut Gyanam"