________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः समानम् । प्रत्यक्षस्य हि तस्य प्रतिध्वनिव्यञ्जनीयस्याभिव्यक्तितारतम्यं नानाध्वनिमिर्जायत इति नानर्थक्यमु त्तरेषाम् । न चेयमप्रत्यक्षेऽभिधेयविधौ सम्भविनी । प्रत्यक्षगोचरो ह्यर्थोऽभिव्यक्तितारतम्यभाम्भवति । न मानान्तरगोचरः । स खलु गृह्यते न वा पुनरभिव्यक्तोऽनभिव्यक्तश्च । एवं च लब्धास्पदमिदं यदुच्यते प्रत्येकं सर्वात्मना नादाभिव्यङ्ग्यः ५ स्फोट इति । अस्य च स्फोटस्य संव्यवहारक्रमेऽभिव्यञ्जकक्रमोऽनुवर्तनादिव यः क्रमरूपावसाय उपप्लवोऽयमनादिभ्रान्तिरूपः । अयमेव व्यवहारस्य निमित्तम् । अत एवायमतिदाय गतोऽशक्यापनयनः। यथा ज्ञानम्याभिन्नस्यावबोधमात्रात्मकस्य नीरूपस्यानवयवत्वेऽपि सर्वशेयरूपोपनाहित्वाद्भेदरूपेणावभासः पञ्च वृक्षा विंशतिर्गाव इति । यथा १० चेतनं ज्ञेयरूपावग्रहणेनात्मभूतेन विना व्यवहारेऽवतारयितुं न शक्यते तथा स्फोटेनापि नालब्धक्रमेण कश्चिदर्थोऽभिधातुं शक्यः, ततः क्रमावसायः प्रतिपत्तॄणाम् । न त्वत्र निर्भागे वस्तुतः क्रमो नाम कश्चिदम्तीति । निर्विवादमेतत्क्रमरहितः स्फोट इति । नियताश्च पदार्थानां शक्तयः । तेन तेऽन्यथाकरणेऽत्य- १५ न्तमसमर्थाः । यथा हि क्षीरस्य विकारे दध्यादौ बीजस्य पवनालादौ न शक्यते राज्ञापि प्रथमा उत्तरा कारयितुमुत्तरा वा प्रथमा । अपि तु तयोर्विकारे नियतैवानुपूर्वी प्रथममिदमिदमुत्तरं तत इति । तथैव प्रतिपत्तृणामपि बुद्धिषु सदैव नियतक्रमः । ततो बुद्धिक्रममन्तरेण स्फोटप्रतिपत्तौ प्रतिपत्तॄणामशक्त्या न तस्य शब्दात्मनोरशब्द- २० तयाऽपि बुद्धिवस्तुनः क्रमिणा भाव्यमित्येवमपराधदण्डव्यवस्था युक्तेति। तदाह---- " यथानुपूर्वीनियमो विकारे क्षीरवीजयोः । तथैव प्रतिपत्तृणां नियतो बुद्धिषु क्रमः ॥१॥” इति नित्यश्चासावभ्युपगन्तव्यः । अनित्यत्वे हि सङ्केतकालानुभूतस्य तदैव ध्वस्तत्वाकालान्तरे देशान्तरे वा गोशब्दस्य श्रवणात्ककुदादिमदर्थप्रतीतिर्न २५
१ वा. प का. १ श्लो. ९२ ।
"Aho Shrut Gyanam"