________________
प्रमाणनयतत्वालोकालङ्कारः [परि. ४ सू. १० मंभिव्यञ्जकत्वे हि ध्वनीनां प्रथमादेव ध्वनेर्वर्णादिप्रतीतिरुपपत्तेस्तन्मात्रानुबन्धित्वाच्चार्थप्रत्ययोत्पादस्य द्वितीयादिध्वनीनामानर्थक्यं भवेदिति । एतदपि न तर्ककर्कशक्षमम् । नादैरभिव्य
ज्यमाने हि स्फोटे ये ज्ञानविशेषा स्फोटग्रहणानुकूला इदं तदित्यव्य५ पदेश्यास्ते स्फोटरूपावसाये हेतुत्वमुपयान्ति । सवरेतैराहितसंस्कारविशेषायां बुद्धौ ध्वनिनाऽन्त्येन सह स्फोटस्य व्यक्तरूपस्य प्रतीतेः । अतो नादैविशिष्टप्रत्ययजननादाहितभावनाबीजायां विशिष्टसम्प्रत्ययजनने लब्धपरिपाकायां बुद्धौ शब्दोऽवभासमुपयाति न पूर्वमिति वस्तु
स्वभाव एवायम् । तदाह-"प्रत्ययैरनुपाख्ये थैर्ग्रहणानुगुणैस्तथा ॥ १० ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ १ ॥ नादेशहितबीजाया
मन्त्येन ध्वनिना सह ॥ आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥२॥” इति । यथा ह्यनुवाकः श्लोको वा पुनः पुनरावृत्त्या सुखेनाऽवधारयितुं शक्यते । न च प्रत्यावृत्तिस्तत्रेदृशी बुद्धिरुपजायते यथेदं गृहीतमिदं नेति । अथ चानेकावृत्तौ श्लोकाद्यवभासः स्पष्टः १५ संवेद्यते तथैवायमपि शब्दात्मा पुनः पुनरभिव्यक्तस्फोटरूपोऽवधा
थते । न च प्रत्यभिव्यक्तिस्तत्रेदशी बुद्धिरुपजायत इदं गृहीतमिदं नेति । अथवाऽनेकाभिव्यक्ती स्फोटावभासः स्पष्टः संवेद्यते । तदुक्तम्" येथानुवाकः श्लोको वा सोढत्वमुपगच्छति ॥ आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्तिनिरूप्यते ॥१॥" अनुवाक इति वैदिकं वाक्यम् । सोढत्वमिति सोढुं शक्यत्वं बुद्धयाक्रमणीयतां स्वीकार्यत्वम् । येन स्वेच्छयेवासौ पठनीयो भवति । आवृत्त्येति जातावेकवचनम् । आवृत्तिरेकैकाऽप्युपयुज्यते, उत्तरोत्तरविशेषाधानाय । अन्यथैकावृत्त्यैव सोढता स्यादिति । अथार्थ एव प्रत्येकध्वनिव्यञ्जनीयोऽस्तु किमन्तर्गडु
कल्पस्फोटपरिकल्पनयेति चेत् । न । प्रथमादेव ध्वनेरभिधेयधीसमुत्पादे २५ हि दुर्निवारमानर्थक्यं द्वितीयादीनां ध्वनीनाम् | न चैतत्स्फोटेऽपि
२०
१ वा. प. कां. १ श्लो। ८४।८५. २ वा.प. का. श्लो. ८३ ।
"Aho Shrut Gyanam"