________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः
३४९ त्यागः सङ्गतो भवेत् । यथा शतादिसंख्याग्रहणे एकादिसंख्या । शतादिसंख्या हि प्रकारान्तरेण ग्रहीतुमशक्यत्वाजिघृक्षायामेकादिसंख्या तद्रहणोपायभूता प्रथमं गृह्यते ततः शतादिसंख्याया अत्यन्तविलक्षणाया गृहीतिः । यदाह सङ्ग्रहकारः- “यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये ॥ संख्यान्तराणां भेदेऽपि तथा शब्दान्तर- ५ श्रुतिः ॥१॥" शब्देति वर्णपदरूपशब्दान्तरश्रुतिर्वाक्यप्रतिपत्तावुपाय इत्यर्थः ।। " असतश्चान्तराले यच्छब्दानस्तीति मन्यते ।। प्रतिपत्तुरशक्तिः सा तद्ग्रहोपाय एव सः ॥१॥" अस्यार्थ:शब्दान्वर्णादिमागरूपानुच्चारणान्तराले यदक्रमस्य भागाभावादसत एवास्तीत्यस्तित्वेन सत्तया मन्यते सा प्रतिपत्तुरनंशवर्णावधारणाक्षमता । १० न च भ्रान्तिज्ञानमपि सत्यशब्देनोपयुज्यतेऽपि तु तत्साक्षात्कारोपाय एवैष इति । न च भागावभासिन्यो मिथ्याबुद्धयः कथं सत्यस्फोट परिन्छित्तिहेतव इति वक्तव्यम् । आराद्वनस्पती हस्तिप्रत्ययप्रवाहस्य सत्यवनस्पतितत्त्वे प्रतीतिहेतुत्वदर्शनात् । तत्सिद्धमन्योन्यमत्यन्तविलक्षणा एते नानाप्रकाराः पृथक्पृथग्विषयास्त्रयोऽप्यविद्योपदर्शि- १५ तालीकावयवा वर्णपदवाक्यव्यपदेश्याः स्फोटा निरवयवा इति । यतश्वेयमवयवपरिकल्पना न वास्तवी तस्मादधिकार्योऽयं स्फोटारख्यः शब्दात्मा नित्योऽनवयवो व्योमवदनुत्पाद्य एकरूपोऽवस्थितः । केवलमात्मनिमित्तैः स्थानाभिघातादिभिः प्राप्तविकारो ध्वनिरस्याभिव्यक्तौ निमित्तभावमुपयाति । यथावस्थितस्य घटादेरभिव्यक्तिः प्रदीपादिभिः २० क्रियते तथाऽस्य ध्वनिभिरिति रहस्यम् । तदाह—“ अधिकार्यस्य शब्दस्य निमित्तैर्विकृतैनिः ॥ उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ॥ १॥” इति । अथ भवत्वयं निरवयवस्तथापि कथमिदमिप्यते प्रत्येकं सर्वात्मना नादैः स्फोटोऽभिव्यज्यत इति । प्रत्येक
१ वा. प. कां. १ श्लो. ८८. २ वा. प. कां.१ श्लो. ८६. ३ वा. प. कां. १ श्लो. ९५
"Aho Shrut Gyanam"