________________
६४८
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ४ सु...
मत्यन्तं विसदृशा अपि तुल्यस्थानकरणजन्मतया स्वयं सदृशमा भजन्तः स्वव्यङ्गयानामन्योन्यविलक्षणानां वर्णपदवाक्यस्फोटानामपि तुल्यतामुपकल्पयन्तो भागबहिर्भूतानपि तान्भागसंक्रान्तानिवावभासयन्ति । मुखभिव मणिकृपाणदर्पणादयो नियतस्थानवर्णपदपरिमाणसं५ स्थानमनुपप्लवमेकमनेकमिवानेकविधस्थानवर्णपरिमाणसंस्थानभेदोपप्लवमिवादर्शयन्ति । तदाह भर्तृहरिः-" पदेन वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन ॥१॥ प्रत्येकं व्यञ्जका भिन्ना वर्णवास्यपदेषु ये ॥ तेषामत्यन्त
भेदेऽपि संकीर्णा इव शक्तयः ॥२॥" तेषामिति ये व्यञ्जका १० ध्वनयोऽन्योन्यव्यावृत्तास्तेषामत्यन्तविजातीयत्वा देऽपि मिश्रीभूता
इव भान्ति शक्तय इति । यथा च दूरदेशे समन्धकारे वा विषय प्रतिपद्यते विरलं घनरूपत्वेनाकृष्णं कृष्णरूपतया । तथाऽभून्स्फोटानपि निर्भागान्नादैरभिव्यज्यमानान्भागावग्रहरूपेणाध्यवस्यति ।
नैतावता तत्र भागाः सत्याः सन्ति । तदाह- " यथैव दर्शनैः १५ पूरासन्तमसेऽपि वा । अन्यथाकृत्यविषयमन्यथैव प्रपद्यते ॥१॥
व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ॥ भागावग्रहरूपेण पूर्व बुद्धिः प्रवर्तते ॥ २ ॥" वाक्य इति वाक्यस्यैव व्यवहारोपयोगित्वेन प्राधान्यानिर्देशः । पूर्वमिति प्रथम वर्णपदभागावग्राहिणी
बुद्धिः प्रवर्तत इति । अथ यथा पिरलवृक्षादयः कदाचित्प्रथममे२० वावास्तवा विरलत्वादिप्रतीत्युपद्रवविरहिता विरलत्वादिरूपतयैव
प्रथापथमुपयान्ति तथा स्फोटः किमिति न कदाचिदप्यामुख एवावयवावसायः । पदे वर्णलक्षणस्य वाक्ये च पदम्वरूपस्य योऽवसायः स स्वभावात्तस्यैवाखण्डस्य शब्दात्मनः प्रतिपत्तावुपायः । तत्प्रतीतावेव तस्य प्रतीतेः । येन च विना यस्य ग्रहणमशक्यं तहहणे कथं तस्यैव
१. संगतान् ' इति भ, पुस्तके पाठः । २ वा. प. कां. १ श्लो. ८९ । ३ वा. प. का. १ श्लो. ९०।९।।
"Aho Shrut Gyanam"