________________
परि. ४ सू. १०]
स्याद्वाद रत्नाकरसहितः
सङ्घातो जातिः सङ्घातवर्त्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्धयसंहृतिः ॥ १ ॥ पदमाद्यं पृथक्सर्वं पदं सापेक्षमित्यपि ॥ वाक्यं प्रतिमतिर्भिन्ना बहुधा न्यायदर्शिनाम् " ॥ २ ॥ इति कारिकाद्वयसंगृहीता अष्टावपि वाक्यपक्षाः प्रतिक्षिप्ताः ।
ततः स्थितमेतत्—
अन्योन्यापेक्षवर्णानां सङ्घातः पदमुच्यते ॥ निरपेक्षः पदानां तु स वाक्यमिह कथ्यते ॥ ५४५ ॥ अत्राहुः स्फोटवादिनः---
अवयवयुतवर्णाद्याग्रहणामुना किं स्फुरदनुभवबन्ध्येनात्र ते जैनविद्वन् ॥ सति मतिमवतीर्णे तात्त्विकानेकभाग
श्रयणविधुरमूर्ती स्फोटसंज्ञे पदार्थे ॥ ५४६ ॥
स्फोटवादिमतस्य विस्तरश उत्पादनपूर्वकं खण्डनम् ।
१०
१५
तथा हि-त्रय एते वर्णपदवाक्यविशेषव्यपदेश्याः परस्परमत्यन्तव्या - वृत्तमूर्तयो निरवयवाः श्रवणविवरमाविशन्तः प्रतीयन्ते स्फोटाः । न तु वाक्ये पदानि । पदेषु वर्णाः । वर्णेष्ववयवाः सन्ति । तत्कथं पौगलिको वर्णो वर्णसंहतिः पदं पदसंहतिश्च वाक्यमितष्यिते । यः खल्वयं पूर्वापरभागात्मकः समुदायो वर्ण इति । यश्च गकारोकारविसर्जनीयरूपवाक्यावयवात्मकः पदमिति । यश्च देवदत्त गामभ्याजेत्यादिपदरूपावयवा - त्मको वाक्यमिति विख्यातः । सर्वेऽप्येते यथाक्रमं वर्णपदवाक्यव्यपदेश्या निरवयवाः प्रयत्नभेदभिन्नैर्नादैः प्रत्येकं सर्वात्मनाऽभिव्यङ्गया एकैकाः क्रमरहिता नित्या अभिव्यञ्जकघर्मानुविधायिनो निर्बाधमध्यवसीयन्ते स्फोटाः । पूर्वादिभागक्रमवर्णपदरूपावयवावसायः पुनरभिव्यञ्जकानां ध्वनीनां धर्मानुविधानात् । क्रमवतां हि ध्वनीनां ये निष्पादकास्तास्वादयस्तेषां प्रतिध्वनि भिन्ना एव शक्तय इति विभिन्नशक्तिकताल्वादिकारण निष्पादिता ध्वनयः परमार्थतः परस्पर- २५
" Aho Shrut Gyanam"
२०