SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ परि. ४ सू. १०] स्याद्वाद रत्नाकरसहितः सङ्घातो जातिः सङ्घातवर्त्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्धयसंहृतिः ॥ १ ॥ पदमाद्यं पृथक्सर्वं पदं सापेक्षमित्यपि ॥ वाक्यं प्रतिमतिर्भिन्ना बहुधा न्यायदर्शिनाम् " ॥ २ ॥ इति कारिकाद्वयसंगृहीता अष्टावपि वाक्यपक्षाः प्रतिक्षिप्ताः । ततः स्थितमेतत्— अन्योन्यापेक्षवर्णानां सङ्घातः पदमुच्यते ॥ निरपेक्षः पदानां तु स वाक्यमिह कथ्यते ॥ ५४५ ॥ अत्राहुः स्फोटवादिनः--- अवयवयुतवर्णाद्याग्रहणामुना किं स्फुरदनुभवबन्ध्येनात्र ते जैनविद्वन् ॥ सति मतिमवतीर्णे तात्त्विकानेकभाग श्रयणविधुरमूर्ती स्फोटसंज्ञे पदार्थे ॥ ५४६ ॥ स्फोटवादिमतस्य विस्तरश उत्पादनपूर्वकं खण्डनम् । १० १५ तथा हि-त्रय एते वर्णपदवाक्यविशेषव्यपदेश्याः परस्परमत्यन्तव्या - वृत्तमूर्तयो निरवयवाः श्रवणविवरमाविशन्तः प्रतीयन्ते स्फोटाः । न तु वाक्ये पदानि । पदेषु वर्णाः । वर्णेष्ववयवाः सन्ति । तत्कथं पौगलिको वर्णो वर्णसंहतिः पदं पदसंहतिश्च वाक्यमितष्यिते । यः खल्वयं पूर्वापरभागात्मकः समुदायो वर्ण इति । यश्च गकारोकारविसर्जनीयरूपवाक्यावयवात्मकः पदमिति । यश्च देवदत्त गामभ्याजेत्यादिपदरूपावयवा - त्मको वाक्यमिति विख्यातः । सर्वेऽप्येते यथाक्रमं वर्णपदवाक्यव्यपदेश्या निरवयवाः प्रयत्नभेदभिन्नैर्नादैः प्रत्येकं सर्वात्मनाऽभिव्यङ्गया एकैकाः क्रमरहिता नित्या अभिव्यञ्जकघर्मानुविधायिनो निर्बाधमध्यवसीयन्ते स्फोटाः । पूर्वादिभागक्रमवर्णपदरूपावयवावसायः पुनरभिव्यञ्जकानां ध्वनीनां धर्मानुविधानात् । क्रमवतां हि ध्वनीनां ये निष्पादकास्तास्वादयस्तेषां प्रतिध्वनि भिन्ना एव शक्तय इति विभिन्नशक्तिकताल्वादिकारण निष्पादिता ध्वनयः परमार्थतः परस्पर- २५ " Aho Shrut Gyanam" २०
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy