________________
६४६
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. १० स्थितपरमाणुसंचयन्यायेन वर्णसमुदायमात्रमुपयान्ति । स इदानीं भेदावसायोऽकारेऽपि पूर्वपरमध्यभागरूपेणास्तीति कथं निरवयवो वर्णः । उदात्तानुदात्तादयो गुणा अपि सावयवत्वे सत्येवास्य सम्भ
वन्ति । एवं भागवति गुणे च प्रतीयमानेऽकारादौ कथं प्रतीतिप्रमाण५ वादिभिरेवानवयवस्य वर्णस्याभ्युपगम इति । बुद्धेरनुपसंहारमन्तस्तत्त्वं
वाक्यमन्ये मन्यन्ते । तथा हि संहृतसकलक्रमस्यैकस्यादेशप्रदेशत्वेऽप्यन्तरात्माऽन्तर्यामीत्येवमाख्यायमानस्य प्रतिप्राणिवृत्तेः शब्दतत्त्वस्याक्षरचिह्नादिभिरिवातथाभूतैः क्रमवद्भि गर्योऽयं बुद्धेरनुपसंहारः क्रमशः पूर्ववर्णभागग्राहिणीभिर्बुद्धिभिर्जनितो यः संस्कारस्तत उत्पन्नस्य स्मरणस्य बलादन्त्यवर्णभागग्रहणतुल्यकालः स वाक्यमिति । एतदपि न परीक्षाक्षमम् । शब्दब्रह्मणोऽन्तस्तत्त्वापरनामधेयस्य प्रागेव सविस्तरमपास्तत्वात् । आद्यं पदं वाक्यमिति परे समीरयन्ति । यदेव हि पदं प्रथमतः प्रयुज्यते तदेव वाक्यं तेनैवेतराक्षेपात् । यतः
प्रथमतः प्रयुज्यमानं पदं क्रियावाचि साधनवाचि वा भवेत् । क्रिया१५ साधनयोश्च परस्पराविनाभूतत्वात्तयोर्यदेव पदमादौ प्रयुज्यते तदेव
स्वार्थस्य धर्मभूतमर्थान्तरमपि तत्र सन्निधापयति धूम इवाग्निमित्येवं प्रथममुपादीयमाने पदे सर्वरूपार्थोपग्राहिण्याख्यातशब्द इव नियमानुवादफलानि पदान्तराण्यभ्यनुज्ञायन्त इति । आख्यातशब्दपक्ष इव
एषोऽपि पक्षः प्रतिक्षेप्यः । पृथक्सर्वपदं सापेक्षं वाक्यमिति कतिचिदुप२० वर्णयन्ति । पृथगिति सङ्घातादवच्छिनत्ति । सर्वमित्याद्यपदादाख्यात
शब्दाच्चावच्छिनत्ति । तेन सर्वाण्येव पदान्यन्योन्यसापेक्षाणि प्रत्येक वाक्यमित्यर्थः । यतः प्रतिपदं क्रियाकारकलक्षणः कृत्स्रोऽर्थः परिसमाप्यते । इदमपि परिफल्गु । देवदत्त गामभ्याजेति श्रुतेर्वाक्यबहुत्व.
प्रत्ययप्रसङ्गात् । अस्मिंश्च पक्षे पदानां परस्परसापेक्षत्वमपि दुरुपपादम्। २५ सर्वेषामपि कृत्लार्थाभिधायित्वादिति । एवं च “आख्यातशब्दः
१ वा. प. कां. २ श्लो. ९॥ २॥
"Aho Shrut Gyanam"