________________
परि. ४ स. १० स्थाद्वादरत्नाकरसहितः मभ्युपगतो मीमांसकैः स एवार्थेन सहास्य हीयते । शब्दस्य कस्यचित्कालधर्मव्यतिरेकेणानभ्युपगमात् । एवं च मूलनाशः । शब्द एवैषां सर्वज्ञो मातापितृस्थानीय उपकारको भूतमविष्यहरसूक्ष्माभिधायी। स एवाभिरूप्यमाणो न दृश्यते। कुतस्तस्यार्थेन सह सम्बन्धः । तदाह--" शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः॥ ५ क्रमो हि धर्मः कालस्य तेन शब्दो न विद्यते ॥ १॥ वर्णानां च पदानां च क्रममावनिवेशिनी ॥ पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ २ ॥ अशब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् ।। एवं सति च सम्बन्धः शब्दस्यार्थेन हीयते ॥ ३॥" इति । किंच प्रत्यभिज्ञानबलादेकत्वेन प्रतीयमानाः १० पदेषु त एव वर्णा वाक्येषु चैतान्येव पदानीति न वर्णेभ्यः कथंचिव्यतिरिक्तो वाक्यपदयोरात्माऽस्तीति यद्युपगमस्तदा वर्णानामपि पूर्वपरोपपरादिभागभेदेन वास्तवो भेदः स्यात् । ततश्च तेषां वर्णभागानामपकर्षपर्यन्तभाविनामभिव्यक्ततिरोभूतानां परस्परमुपश्लेषो नास्तीति न वर्णानामपि पदमित्यस्तमयः शब्दव्यवहारः स्यात् । अव्यपदेश- १५ त्वाद्धि तेषु प्रतिभागं व्यवहाराभावात् । किं तदेकमस्ति यदिदं तदिदं तदित्युपाख्यायेत् । तस्मादुच्यते मूलनाशोऽत्र भवतामिति । तदाह" पैदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ॥ वर्णेषु वर्णभागानां भेदः स्यात्परमाणुवत् ॥१॥ भागानामनुपश्लेषान्न वर्णानां पदं भवेत् ।। तेषामव्यपदेशत्वात्किमन्ययपदिश्यताम् ॥२॥" २० इति । अथ वर्णाः स्वभावेन निरवयवा इति चेत् । एवं तर्हि वैयाकरणप्रतिपादितौ निर्भागौ पवाक्यस्फोटावभ्युपगन्तुं प्रसज्यते । तथा देवदत्तादिपदेषु स्फुटो भेदोऽवसीयत इत्यवसायबलादनवयवं पदस्फोटं वाक्यस्फोटं च भवन्तो नेच्छन्ति । "गकारौकारविसर्जनीया इति भगवानुपवर्षः” इति वचनादेकत्राव. ३. १ वा. प. कां. २ श्लो. ५०५२।१६ । २ वा. प. का. २ श्लो. २८२९.
"Aho Shrut Gyanam"