________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. १०
अपरे तु पदानां सङ्घातो वाक्यमिति प्रतिपन्नाः । तेऽपि पर्यनुपदानां संघातो वाक्यं, योज्याः । किं निरपेक्षाणां पदानां सातो जातिस्फोटं नित्यमनवय - वाक्यं स्यात्सापेक्षाणां वा । प्रथमपक्षे दश वं वाक्यमित्यादिवाक्यलः दाडिमानि षडपूषाः कुण्डमजाजिनभित्यादिपद
क्षक्रमतानां खण्डनम् ।
सङ्घातस्यापि वाक्यत्वप्रसङ्गः । द्वितीयपक्षे त्वस्मन्मतप्रवेशः । इतरे तु देवदत्त गामभ्याजेति वर्णैर्ध्वनिविशेषैः क्रमभा विभिर नित्यैरयुगपदबस्थानैरभिव्यज्यमानमनेकमनेकाधारं देवदत्तादिवर्णव्यतिरिक्तं जातिस्फोटं नित्यमनवयवं वाक्यं प्रतिपेदिरे । यथोत्क्षेपणादिकर्मक्षणरुत्क्षेपणत्वाद्यभिव्यज्यते तथैव तस्मिन्दर्शने वर्णैर्वाक्यमपीति । इदमपि न १० पेशलम् । नित्यनिरवयव सामान्यस्य पुरा पराकरिष्यमाणत्वात् । अन्ये तु ॐकारोऽनवयवः शब्दः परिकल्पितवर्णपद विभागो वाक्यमित्याहुः । एतदपि न न्याय्यम् । स्फोटनिर करणप्रकरणे निराकरिष्यमाणत्वात् । पदानां क्रमो वाक्यमिति कतिपये परिकीर्तयन्ति । तेषां हि मते वर्णानां क्रमः पदं पदानां क्रमो वाक्यमिति । इदमप्यपर्यालोचितवचनम् । शब्दो१५ च्छेदप्रसङ्गात् । तन्मते हि वर्णाः सर्वदेशकालव्यापिन एकका नित्याः । क्रमश्च नाम कालाव्यापित्वे च पिपीलिकापंत्तयादीनां स्यात् । उभयमप्येतद्वर्णानां न सम्भवति । सर्वदेशव्यापित्वाभ्युपगमान्नित्यत्वोप गमाच्च । उपलब्धिस्तु नियतकाला क्रमवती । न च सा वर्णा । अपि तु वर्णविषया । तस्याश्च क्रमः कालस्य धर्म इप्यते । क्रमयौगपद्य - २० लिङ्गानुमेयं हि कालमिच्छन्ति । ततश्च वर्णोपलब्धिक्रमश्च वाक्यमित्युपगमः स्यात् । स च न समीचीनः । पदोपलब्धिकमस्य काल : धर्मत्वेनाशब्दत्वात् । ततश्च वाक्यार्थोऽशब्दः स्यात् । यदा च वाक्यार्थः शब्दस्याभिधेयो न भवति, अपि तूपलब्धिक्रमस्य कालधर्मस्य तदा पदार्थोऽपि न शब्दार्थः स्यात् । पदस्याप्युपलब्धिक्रमरूपत्वात् । २५ तस्य च कालधर्मत्वात् । एवं च शब्दस्य योग्यतालक्षणसम्बन्धी योऽय
કક
५
" Aho Shrut Gyanam"