________________
परि. ४ सू. १.] स्याद्वादरलीफारसहितजन आराधना केन्द्र ६४३
वा (गाधीनगर) पि com आख्यातैरेवोपात्ताः । यथा पश्यतीति श्रोत्रादिभ्यो व्यवच्छिन्नं चक्षुरेख करणम् । यथा च वर्षतीति देवदत्तादिव्यवच्छिन्नोऽम्भोधर एव कर्तृविशेषः प्रतीयते । तथा सर्वैव क्रिया विशिष्टसाधनैव प्रक्रान्ता रूपसामान्याहृतबुद्धिस्तु प्रतिपत्ता तथा तां न प्रतिपद्यत इत्यनुवादाय नामपदानीति | संस्कारकारीणीति क्रियाकारकसमुदायस्याख्यातार्थस्य ५ नियमोऽनुवादश्च संस्कारो यत आख्यातपदात्केवलान्नियमानुवादौ न प्रतीताविति । अत्र प्रतिविधीयते । यथा, आख्यातानि क्रियाप्रतिपादनादुपात्तशक्तिसामान्यान्युपात्तशक्तिविशेषाणि वा तथा नामपदान्यपि क्रियासामान्य क्रियाविशेषं वोपाददत इति तेषामपि कुतो न वाक्यत्वम् । अथ साध्यत्वाक्रियायास्तादर्थ्याच्च साधनानां क्रिया प्रधा- १० नम् । तथा च प्रधानवशवर्तित्वात्प्रधानाव्यभिचाराच गुणानां साधनसामान्यं तदाधारविशेषं चाशीकरोतीति तदेव वाक्यम् । नामपदानां त्वभिधायकत्वेऽपि प्रधानतन्त्रत्वादाख्यातोक्तार्थातिरितार्थानभिधानाच्च न वाक्यत्वमिति चेत् । एतदपि विचारपरामुखम् । न खलु क्रियेत्येव कृत्वा प्रधानत्वम् । अन्यार्थत्वेनापि १५ क्रियायाः कस्याश्चियवस्थानात् । यथा ऋत्विक्प्रचरणे प्रमाणान्तरासिद्धे " लोहितोष्णीषा ऋत्विजः प्रचरन्ति " इत्यत्र लोहितोष्णीपत्वस्यैव प्राधान्यं विधेयत्वात् । प्रचरणक्रियायास्तु गौणत्वमनुवाद्यत्वादिति । एवं चाख्यातपदं स्ववाच्यार्थसंस्कारकतयाऽवश्य नामपदान्यपेक्षते । नामपदानि चाख्यातपदवाच्यमर्थ संस्कार्यतयाऽ- १० पेक्षमाणानि तत्प्रतिपादकमाख्यातपदमपेक्षन्ते तथा नामपदानि स्वबाच्यार्थसंस्कारतयाख्यातपदमपेक्षन्ते । आख्यातपदं च तद्वत्याऽर्थसंस्काराय तान्यपेक्षत इत्यन्योन्यापेक्षाणां पदानां समुदाय एव वाक्यत्वमासादयतीति सिद्धम् ॥
"Aho Shrut Gyanam"