________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू० १०
I
कांक्षणादिति चेत् । तदवद्यम् । यस्य हि प्रतिपत्तुस्तस्मात्परिणामी - त्याकांक्षायस्तदपेक्षया तद्वाक्यं भवत्येव । प्रोक्तवाक्यलक्षणसम्भवात् । नापरापेक्षया । निराकांक्षत्वं हि प्रतिपत्तुर्धर्मः, वाक्ये तूपचरित एव । तस्याचेतनत्वात् । स चेत्प्रतिपत्तावपि निगमनवचनापेक्षायां निगम९५ नान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गान कचिन्निराकांक्षत्वसिद्धिर्भवेत् । तथा च वाक्याभावान्न कचिद्वाक्यार्थप्रतिपत्तिः कस्यचित्स्यात् । ततस्तामिच्छता यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकांक्षत्वं स्यात्तावत्सु वाक्यत्वासिद्धिः प्रतिपत्तव्या । एतेन प्रकरणादिगम्येनापि पदान्तरेण श्रयमाणपदसमुदायस्य निराकां१० क्षत्वसिद्धेर्वाक्यत्वं प्रतिपादितं प्रतिपत्तव्यम् ।
अत्र विप्रतिपद्यन्ते परे । तथा हि केचिदाहुः - " आख्यातशब्दो वाक्यम् " इति, आख्यातशब्देन हि व्यावहाआख्यातशब्दा वाक्यमिति मतस्योपपाद्य रिकस्य प्रवृत्तिनिवृत्तिलक्षणस्यालौकिकस्य कारखण्डनम् । कiभिन्नस्य वाक्यार्थस्याभिधाने सति नामपदानि १५ नियमायानुवादाय वा प्रयुज्यमानाख्यातपदवाच्यस्यैवार्थस्य संस्कारकारीणि विज्ञायन्त इति । तत्र नियमायानुवादाय वेति वाशब्दः -समुच्चये । तेन नियमायानुवादाय चेत्यर्थः । तथा हि नामपदेष्वन्वय'व्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थापोद्धारे प्रातिपदिकं शक्तीनां कारकापराभिधानानामाख्यातशब्दैरभिहितानामाश्रयसामान्यावग्रहद्वारेण प्रवृत्ता२० नामाश्रयविशेषस्य नियामकम् । विभक्तयस्तूपात्तामेव शक्ति प्रतिपादयन्तीत्यनुवादिकाः । एवं च नामपदानि प्रकृत्यंशद्वारेण नियमफलानि प्रत्ययांशद्वारेण त्वनुवादफलानीति । अथवा विकल्पे वाशब्दस्तेन नियमायानुवादाय वेत्यर्थः । तथा हि व्यवहारयोग्याः शक्तय आख्यातैरुपादीयन्ते न त्वासामाधारविशेषोऽतस्तन्नियमाय नामपदानि । यथा, आश्रयतीति कर्मशक्तिसामान्यावग्रहे सत्याश्रयविशेषोपलचे नियमाय माणवकमिति पदमुपादीयते । यद्वा विशिष्टाधारनिविष्टा एव शक्तय
६४२
२५
" Aho Shrut Gyanam"