________________
परि. ४ सू..१०] स्थाद्वादरत्नाकरसहितः
६४१ दिसम्बोधनायाम इत्येवमादावेकत्र वर्णे पदत्वेन सम्मते वृत्तेरभावादव्यापकमेतल्लक्षणम् । मैवम् । विप्रतिपत्तिप्रत्याख्यानार्थत्वादस्य लक्षणप्रणयनस्य । मीमांसकाः खल्वेवं विप्रतिपद्यन्ते । एकस्य वर्णस्य पदमिति व्यपदेशेऽपि न तन्निबन्धनं किश्चिदधिकं कैश्चिदपि रूपमभ्युपगम्यत इत्यस्तु कामं तत्र पदव्यपदेशो वर्णद्वयादेस्तु योऽयं तदतिरिच्य- ५ मानमूर्तिसंहति समाश्रित्य तद्व्यपदेशः प्रवर्त्यते नासौ सम्यक् । व्यापकानां वर्णानामव्यापकत्वेन नियतायास्तस्या असम्भवादिति । ततश्च तन्निरासाय वर्णद्वयादावेव पदत्वप्रतिपादनायेदं सूत्रं सूत्रितम् । एकस्य तु वर्णस्यार्थ प्रतिपादयतः पदत्वं पदान्तरवर्तिवर्णनिर्वर्तितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन लक्षायितव्यम् । यद्वा प्रायिकत्वेन १० वर्णद्वयादेरेव पदत्वं लक्षित यावतैकस्यापि वर्णस्य तद्रष्टव्यम् । यदाहाकलङ्कसिद्धिविनिश्चये-" वर्णसमुदायः पदमिति प्रायिकमेतप्रत्येकमकारादेः क्वाचित्कत्वदर्शनात् ” इति । पदानां पुनर्वाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिर्मितोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यमभिधीयते । उच्यते स्वसमुचितोऽर्थोऽनेनेति १९. वाक्यमिति व्युत्पत्तेः ।
यथा-- आकण्ठं यदि पातुमिच्छसि सखे कर्णाञ्जलिभ्यां सुधां
कां गोपदसोदरं यदि भवाम्भोधि ध्रुवं वाञ्च्छसि ।। . क्षिप्रं मोक्षवधूकटाक्षलहरीलक्ष्यत्वमाकांक्षसि .. स्वस्य त्वं यदि सादरं शृणु तदा श्रीसर्वविद्भारतीम् ॥५४४॥
इत्यादि । एवं वाक्यसंहतिः प्रकरणम् । प्रकरणसंहतियथासमयं परिच्छेदो वा पादो वाऽऽहिकं वाऽध्यायो वा, तत्संहतिः शास्त्रमिति स्वयमेव प्रा.विज्ञेयम् । ननु यदि वाक्यान्तरस्थपदापेक्षारहिता पदानां संहतिर्वाक्यतया - स्वीक्रियते तर्हि कथमिदं साधनवाक्यमुपपद्यते २* यत्सतत्सर्वं परिणामि यथा घटः संश्च शब्द इति तस्मात्परिणामील्या
२०
"Aho Shrut Gyanam"