________________
६४०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १ परीक्षायां निराकरिष्यते। ततः स्थितमकारादिः पौगलिको वर्ण इति । ननु वर्णानां केवलानां सर्वत्र निरर्थकत्वात्कथं तल्लक्षणप्रणयनं
. युक्तमिति न मन्तव्यन् । अनुमानतस्तेषामर्थकेवलवर्णानामवत्त्वस्य प्रसाधनम्। वत्त्वप्रतीतेः । तथा हि वृक्षादिसमुदायस्था
वर्णाः प्रत्येकमर्थवन्तो वर्णत्वाद्धातुप्रातिपदिकप्रत्ययनिपातवर्णवत् । इतश्चार्थवन्तो वर्णास्तव्यत्ययेऽर्थान्तरगमनाद्यस्य व्यत्ययेऽर्थान्तरगमनं च पश्यामस्तस्मादर्थवन्तो वर्णा इति । इतश्चार्थवन्तस्ते वर्णविशेषानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययात् । इह
यस्यानुपलब्धौ पूर्वदृष्टस्यार्थस्यासम्प्रत्ययो दृष्टः सोऽर्थवान्, यथा प्रति१० ष्ठत इत्यत्र प्रशब्दानुपलब्धौ प्रस्थानरूपस्यार्थस्यासम्प्रत्यये प्रशब्दः । वर्णविशेषानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययश्च वृक्षशब्दस्य ऋक्षशब्दे । तस्मादर्थवन्तस्त इति । इतोप्यर्थवन्तो वर्णास्तत्सङ्घातस्यार्थवत्त्वायत्र यत्सङ्घातोऽर्थवान्, अवयवस्यापि तत्रार्थोऽस्ति । यथा तिलेषु तैलमात्रा
काचित् । यत्र स्ववयवानामर्थो न दृष्टस्तत्र तत्सङ्घातोऽपि तेषामन१५ र्थक एव । यथा सिकतानां खारीसहस्रमपि तैललक्षणार्थशून्यम् ।
अस्ति च सङ्घातस्यार्थवत्ता वृक्षः प्लक्ष इति । तस्मादर्थवन्तो वर्णा इति ॥ ९॥ ___ अथ पदवाक्ययोर्लक्षणमाह
वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं, २०
पदानां तु वाक्यमिति ॥ १० ॥ वर्णों च वर्णाश्चेत्येकशेषात् ब्रह्मसम्बोधने क इत्यादौ द्वयोगौरित्यादौ तु बहूनां वर्णानामक्षराणाम् । अन्योन्यापेक्षाणां पदार्थप्रतिपादने
कर्तव्ये सहकारिकारणतया परस्परं व्यवस्थितानाम् । निरपेक्षा : पदान्तरवर्तिवर्णनिर्वतितोपकारपराङ्मुखी संहतिः पदमभिधीयते । २५ पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति पदमिति निरुक्तेः । नन्वेवं केशवा
"Aho Shrut Gyanam"