________________
परि. ४ सु. ९] स्याद्वादरत्नाकरसाहितः शष्कुल्यां स्पर्शोपलब्धिर्न स्यात् । उपघातो वा बालकादिकर्णयोः । भवति चाऽयम् । तथा हि
जरन्मुरजझईरस्फुरितवाक्रियाकर्कशैः
प्रतिध्वनितधोरणीरसितरोदसीकन्दरैः ॥ भवत्यतिसमीपगैईगितिझल्लरीझाकृतः ।
स्तनन्धयशिशोर्बलाद्बधिरता ध्रुवं कर्णयोः ॥ ५४३ ॥ विवक्षितशब्दप्रतिपादनविषयप्रयत्नोदीरितकोष्ठयसमीरणोद्गमनप्रतिलब्धप्रादुर्भावस्वप्रचयातिशयवशात्कदम्बगोलकन्यायेन तरङ्गभङ्गविसपणन्यायेन वा कर्णशकुल्यवच्छिन्नदेशप्रदेशेषु प्रविशन्तः शब्दाः कटकटायमानाः कर्णोपघाताय कल्पन्त इति सर्व एव हि चेतनाश्चे- १० तयन्ते । तादृशः स्पर्शः शब्दे सति भवन्नसत्यभवन्वर्धमाने वर्धमानः क्षीयमाणे क्षीयमाणः शब्दगुणत्वमात्मनः सूचयन्नमूर्तत्वप्रकृतिं परेषां स्वयमेव प्रत्यस्तमयतीति किन्नस्तत्र प्रयासेन । वायवीयः स स्पर्शो न शाब्द इत्यत्र न प्रत्यक्षम् । नाप्यनुमानादिकं सम्भवति । शक्यं च वक्तुं समीरणप्रेरितमूर्तवस्त्वन्तरम्पर्शोऽयं न तु वायवीयोऽपि । गन्धवत् । १५ ततः समीरणस्यापि मूर्तत्वं दुरवगाहं भवेत् ! अथान्वयव्यतिरेकाभ्यां वायवीयः स्पर्शोऽयमिष्यते । तर्हि शब्दधर्मित्त्वेऽपि स्पर्शस्य कः प्रद्वेषहेतुः । बहिरिन्द्रियप्रत्यक्षस्य शब्दस्य पृथिव्यादेरिव स्पर्शवत्त्वे विरोधाभावात् । ततः स्पर्शवत्त्वान्मूर्तिमान्ध्वनिमूर्तिमत्त्वाच्च पौगलिक इति । अम्बरगुणत्वे पुनः शब्दस्य बहिरिन्द्रियप्रत्यक्षत्वं दुरुपपादं स्यात् । २० यो हि गगनगुणः स न बाह्येन्द्रियप्रत्यक्षः । यथा विभुत्वादिः । गगनगुणश्च परेषामभिमतः शब्द इति । तथा यो बहिरिन्द्रियप्रत्यक्षः स परोक्षगुणो न भवति । यथा रूपादि । बहिरिन्द्रियप्रत्यक्षश्च शब्द इति । न च निष्प्रदेशस्य कस्यचिद्यापिनो गुणः प्रादेशिको युक्तिमनुगच्छति । व्याघातात् , ततः शब्दोऽपि सर्वगतः स्यात् । न च २५ तथा केनाऽप्यनुभूयते । विस्तरतश्चाम्बरगुणत्वं शब्दस्य षट्पदार्थ
"Aho Shrut Gyanam'