________________
६३८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. ५ माणयोश्च पुरुषेणाश्रवणे समानेऽन्यो विशेषोऽस्ति । यतो वैदिक अपौरुषेयाः शब्दा लौकिकास्तु पौरुषेयाः स्युः । एवं च
कथमपि सखे युक्तिं नैव प्रयाति निराकृतं __ वचनमुदितैर्दोषैरैतद्यतः कवलीकृतम् ॥ निजमतगतं मिथ्यावादं विहाय तदिप्यतां
प्रमितिरमणीक्रीडारामं श्रुतं जिननिर्मितम् ॥५४२॥७॥ आप्तवचनादित्युक्तम् । तत्राप्तः प्ररूपितः । सम्प्रति वचनं प्ररूपयन्नाह१० वर्णपदवाक्यात्मकं वचनमिति ॥ ८ ॥
वर्णश्च पदं च वाक्यं च वर्णपदवाक्यानि वक्ष्यमाणलक्षणानि तान्यात्मा स्वभावो यस्य वचनस्य तत्तथा । वर्णपदवाक्यानि चोपलक्षणं प्रकरणपरिच्छेदादीनामिति ॥ ८ ॥
अथोद्देशानुक्रमेण वर्ण लक्षयितुमाह-~-- १५ अकारादिः पोद्गलिको वर्ण इति ॥ ९॥
पुद्गलैर्भाषापरमाणुद्रव्यलक्षणेरारब्धः पौगलिकः । ननु कुतः प्रमाणात्पौद्गलिकत्वं वर्णस्य प्रतीयत इति चेत् । अनुमानादिति ब्रूमः । तथा हि, वर्णः पौगालिको मूर्तिमत्त्वायन्मूर्तिमत्तत्पौगलिकम् । यथा पृथि
व्यादि । मूर्तिमांश्च वर्णस्तस्मात्पौद्गलिक इति । न च मूर्तिमत्त्वमस्या२० सिद्धम् । स्पर्शवत्त्वात् । यत्पुनर्मूर्तिमन्न भवति न तत्स्पर्शवत् । यथा
व्योम । स्पर्शवांश्च वर्णः । ततो मूर्तिमान् । न च स्पर्शवत्त्वमप्यस्याप्रतीतम् । कर्णकुहरं प्रविशति ध्वनौ कर्णशष्कुलिकान्ततः स्पर्शस्याऽनुभूयमानत्वात् । ततः स्पर्शवत्त्वादूपरसगन्धस्पर्शवत्त्वलक्षणा मूर्तिवनौ प्रसिद्धिपद्धतिमवतरति । यदि पुनर्वनिरमूर्तिः स्यात्कर्ण
"Aho Shrut Gyanam"