________________
परि. ४ सू. ७ स्याद्वादरत्नाकरसहितः स्वतोऽन्यतो वा । स्वतश्चेत्, अन्योन्याश्रयः । विद्यमाने हि. वेदार्थाभ्यासे स्वतस्तत्परिज्ञानं तस्मिन्सति तदर्थाभ्यास इति । अथान्यतः, तर्हि तस्यापि तत्परिज्ञानमन्यत इत्यतीन्द्रियार्थदर्शिनोऽनभ्युपगमे परस्परतो यथार्थनिर्णयानुपपत्तिः । अदृष्टमपि न प्रज्ञातिशयप्रसाधकम् । तस्यात्मान्तरेऽपि सद्भावात् । न तथाविधमदृष्टमन्यत्र मन्वादावेवाऽस्य ५ सम्भवादिति चेत् । कुतस्तत्रैवाऽस्य सम्भवः । वेदार्थानुष्ठानविशेषाचेत्, स तर्हि ज्ञातस्याऽज्ञातस्य वा वेदार्थस्याऽनुष्ठाता स्यात् । अज्ञातस्य चेत्, अतिप्रसङ्गः । ज्ञातस्य चेत्, चक्रकप्रसङ्गः । सिद्धे हि वेदार्थज्ञानातिशये तदानुष्ठानविशेषसिद्धिः । तसिद्धौ चादृष्टविशेषसिद्धिः। ततस्तज्ज्ञानातिशयसिद्धिरिति । ब्रह्मणोऽपि वेदार्थज्ञाने १० सिद्धे सत्यतो मन्वादेस्तदर्थपरिज्ञानातिशयः सिध्येत् , तच्चास्य कुतः सिद्धम् । धर्मविशेषाचेत्स एव चक्रकप्रसङ्गः । सिद्धे हि वेदार्थपरिज्ञानातिशये तत्पूर्वकानुष्ठानविशेषः सिद्धयेत् । ततस्तज्जनितधर्मविशेषः सिद्धयेत् । तत्सिद्धौ च वेदार्थपरिज्ञानातिशयः सिध्येदिति । ततोऽतीन्द्रियार्थदर्शिनोऽनभ्युपगमे वेदाथाप्रतिपत्तिरेव । ननु व्याकरणाद्य- १५ भ्यासाल्लौकिकपदवाक्यार्थप्रतिपत्तौ तदविशिष्टवैदिकपदवाक्यार्थप्रतिपतेरपि प्रसिद्धिरतो न वेदार्थप्रतिपत्तावतीन्द्रियार्थदर्शिना किंचि. त्प्रयोजनम् । इत्यप्यपेशलम् । लौकिकवैदिकपदानामेकत्वेऽप्यनेकार्थत्वव्यवस्थितेरन्यपरिहारेण व्याचिख्यासितार्थस्य नियमयितुमशक्तेः । न च प्रकरणदिभ्यस्तन्नियमः । तेषामप्यनेकताप्रवृत्तेस्त्रिसन्निधानादिवत् । २० यदि च लौकिकेनाम्यादिशब्देनाविशिष्टत्वाद्वैदिकस्याम्यादिशब्दस्यार्थप्रतिपत्तिः । तर्हि, पौरुषेयेणापि तेनाविशिष्टत्वात्पौरुषेयोप्यऽसौ कथं न स्यात् । लौकिकस्य ह्यम्यादिशब्दस्यार्थवत्त्वं पौरुषेयत्वेन व्याप्तम् । तत्राय वैदिकेऽप्यम्यादिशब्दे कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति । उभयमपि हि गृह्णीयात्, जह्याद्वा । न च लौकिकवैदिक- २५ शब्दयोः स्वरूपाविशेषे सङ्केतग्रहणसव्यपेक्षत्वेनार्थप्रतिपादकत्वेऽनुच्चार्य
"Aho Shrut Gyanam"