________________
६३६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ७ भावसिद्धिरिति । अन्यतस्तसिद्धौ चास्य वैयर्थ्यम् । अपौरुषेयत्वस्यापि तत एव प्रसिद्धेः । ततो वेदेवपौरुषेयत्वसाधकस्य कस्यचित्प्रमाणस्यासम्भवात्कथमसावपौरुषेयः स्यात् । अस्तु वा तथाऽप्यसौ व्याख्यातोऽव्याख्यातो वा स्वार्थे प्रतीतिं कुर्यात् । न तावदव्याख्यातः । अतिप्रस५ ङ्गात् । अथ व्याख्यातः । कुतस्तस्य व्याख्यानं स्वतः पुरुषाद्वा । न तावत्स्वतः । भो भोः श्रोत्रियपुझ्याः समुदितैः सर्वैरपि श्रूयतां
सम्प्रत्यस्तमितान्यकृत्यविधिभिधृत्वा समाधौ मनः ॥
भद्वाचामिदमेव वाच्यमपरं मा सर्वथा कल्पता१० मित्येवं विदधाति नात्मवचसा व्याख्यां कदाचितिः ॥ ५४१ ॥
अन्यथा व्याख्याभेदो न स्यात् । पुरुषाच्चेत् , कथं तद्व्याख्यानापौरुषेयादर्थप्रतिपत्तौ दोषाशङ्कानिवृत्तिभवेत् । पुरुषा हि रागादिमन्तो विपरीतमप्यर्थ व्याचक्षाणाः समुपलभ्यन्ते । संवादेन प्रामाण्याङ्गी
करणे वाऽपौरुषेयत्वकल्पनवैयर्थ्यम् । पौरुषेयत्वेऽपि वेदस्य संवादादेव १५ प्रामाण्योपपत्तेः । न च व्याख्यानानां संवादः समस्ति । परस्परविरुद्ध
भावनानियोगादिव्याख्यानानामन्योन्यं विसंवादोपलम्भात् । अपि चायं वेदव्याख्याताऽतीन्द्रियार्थदर्शी तद्विपरीतो वा । आद्यकल्पेऽतीन्द्रियार्थदर्शिनः प्रतिषेधविरोधः । धर्मादौ वाऽस्य प्रामाण्योपपत्तेधर्मे चोदनैव प्रमाणमित्यवधारणानुपपत्तिश्च । अथ तद्विपरीतः । कथं तर्हि तव्याख्यानाद्यथार्थप्रतिपत्ति: । अयथार्थाभिधानाशङ्कया तदनुपपत्तेः । न च मन्वादीनां सातिशयप्रज्ञत्वात्तयाख्यानाद्यथार्थप्रतिपत्तिः । तेषां सातिशयप्रज्ञत्वासिद्धेः । तेषां हि प्रज्ञातिशयः स्वतो वेदार्थाभ्यासाददृष्टात् ब्रह्मणो वा स्यात् । स्वतश्चेत्, सर्वस्यं स्यात् । आविशेषात् ।
वेदार्थाभ्यासाचेत्, ननु वेदार्थस्य ज्ञातस्याऽज्ञातस्य वाऽभ्यासः स्यात् । २५ न तावदज्ञातस्य । अतिप्रसङ्गात् । अथ ज्ञातस्य, कुतस्तज्ज्ञप्तिः,
१ स्तुतिः' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"