________________
पारे. ४ सू. ७] स्याद्वादरत्नाकरसहितः
६३५ त्सुप्रसिद्धा । तथाभूतां च प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोऽपि कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थेनाशेषपुरुषाणामीदृशत्वसिद्धिः । यतः सिद्धसाधनं न स्यात् । अथ न शब्दे गुणवद्वक्तकत्वेनैवाप्रामाण्यनिवृत्तिरपौरुषेयत्वेनाप्यस्याः सम्भवात्ततोऽयमदोषः । तदपि न्यायनिराकृतम् । यतोऽपौरुषेयत्वं प्रेरणायाः किमन्यतः प्रमा- ५ णात्प्रसिद्धमत एव वा । यद्यन्यतस्तदाऽस्य वैयर्थ्यम् । अत एव चेत्, परस्पराश्रयः । अतो ह्यनुमानादपौरुषेयत्वसिद्धौ प्रेरणायाः प्रामाण्यसिद्धिस्तसिद्धौ च तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदृशत्वसिद्धिरिति । तन्न निर्विशेषणं वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रतिपादयति । नापि सविशेषणम् । यतः किं तत्र विशेषणं कम्मरणं १० वा सम्प्रदायाव्यवच्छेदो वा । न तावत्कञस्मरणम् । तस्यासिद्धत्वाद्यनेकदोषकलङ्कितत्वप्रतिपादनात् । सम्प्रदायाव्यवच्छेदोऽप्यात्मगतः सर्वलोकगतो वा । न तावदात्मगतः। भारतादिपौरुषेयत्वेऽप्यस्य सम्भवात् । नापि सर्वलोकगतः । असर्वविदा तस्य सतोऽपि ज्ञातुमपार्यमाणत्वात् । वटे वटे वैश्रवण इत्यादिवत्पौरुषेयत्वेऽप्यस्याविरोधाच्च । अपि १५ च, आदिमतोऽपि शास्त्रग्रामस्य सम्प्रदायव्यवच्छेदोऽस्ति वेदस्य पुनरनादेरसौ नास्तीति कः श्राद्धिको भवतोऽपरः प्रतिपद्येत । यदप्युक्तमतीतानागतौ कालावित्यादि तदप्यत्यन्तमसम्बद्धम् । आगमान्तरेऽप्यस्याविशेषात् । किंचेदानीं यथाभूतो वेदकरणासमर्थपुरुषयुक्तः कालः प्रतीतोऽतीतानागतो वा तथाभूनः कालत्वात्साधयितुमभिप्रेतोऽ- २० न्यथाभूतो वा । यदि तथाभूतः । तदा सिद्धसाधनम् । अथान्यथाभूतस्तदा सन्निवेशादिवदप्रयोजको हेतुः । तथाभूतस्यैव कालस्य तद्रहितत्वं साधयितुमभिप्रेतम् । न च सिद्धसाधनम् । अन्यथाभूतस्य कालस्यैवाऽसम्भवादिति चेत् । उच्यते। अन्यथाभूतकालोऽसम्भवतीत्येतत्कुतःप्रमाणात्प्रतिपन्नम् । अत एवाऽन्यतो वा । यद्यत एवेतरेतराश्रयः । अन्यथामूतकाला- २५ भावसिद्धौ ह्यतोऽनुमानात्तद्रहितत्वसिद्धिस्तत्सिद्धेश्चान्यथाभूतकाला
"Aho Shrut Gyanam"