________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. ७
"
कुर्वाणोऽपि कश्चिदिदानीं न दृश्यते इति तेषामप्यपौरुषेयत्वप्रसक्तिः । तस्मान्न मन्त्रोपेतत्वमपि वेदरचनायाः कर्तृपूर्व रचनावैलक्षण्यं गदितुमनुगुणम् । अपि चात्र विशिष्टा रचना दृश्यमाना तत्करणासमर्थमेव कर्त्तारं निराकुरुते न पुनः कर्तृमात्रमपि । न खलु पुराणकूपप्रासादादौ ५ विशिष्ट रचना प्रतीयमाना कर्तृमात्रं निराकुर्वती प्रसिद्धा । तत्करणासमर्थस्यैव शिल्पिनस्तया निराकरणात् । न हि कर्त्रन्वयव्यतिरेकानूविधायिनो धर्माः कर्त्तारं विना घटन्ते । ततो वैदिकी रचना पौरुषेयी न भवतीत्याद्यनुमानमयुक्तमुक्तम् । दृष्टकर्तृकरचनाविलक्षणत्वस्य हेतोरुक्तनीत्या तत्त्रासिद्धत्वात् । सिद्धत्वे वा कर्तृमात्रानिषेधकत्वात् । १० ततो रचनामात्रात्कर्त्रनुमाने विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गत
इत्याद्यपि प्रतिक्षिप्तम् । वेदरचनायाः कर्तृपूर्वकरचनातो विलक्षणत्वाव्यवस्थितेः । जगद्रचनायास्तु तद्विलक्षणत्वेऽव्यवस्थिते: । तस्थास्तद्व्यवस्थितिश्च सविस्तरमीश्वर निराकरणे विहिता । यदप्यभिहितं वेदाध्ययनं सर्वं गुर्वध्ययनपूर्वकमित्यादि । तत्र निर्विशेषणं वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रतिपादयेत्स विशेषणं वा । प्रथमपक्षेs'नैकान्तिकम् । विपक्षेऽप्यस्याविरुद्धतया सद्भावसम्भवात् । न खलु वेदाध्ययनवाच्यत्वं कर्तृपूर्वकत्वलक्षणविपक्षेण विरुद्धम् । भारताध्ययनवाच्यत्ववत्तस्याऽपि तेनाविरोधात् । किंच यथाभूतानां पुरुषाणां यथा वेदाध्ययनं गुर्वध्ययनपूर्वकमुपलब्धं तथाभूतानामेव तत्तथा साध्यतेऽन्यथाभूतानां वा । यदि तथाभूतानां तदा सिद्धसाध्यता । अथान्यथाभूतानां तर्हि विश्वस्य बुद्धिमत्पूर्वकत्ये साध्ये सन्निवेशादि - वदप्रयोजको हेतुः । अथ तथाभूतानामेव तत्तथा साध्यते । न च सिद्धसाधनम् । सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येनातीन्द्रियार्थप्रतिपादक प्रेरणाप्रणेतृत्वासामर्थ्येनेदृशत्वादिति चेत् । एतदपि न २५ निरवद्यम् । प्रेरणायास्तथाभूतार्थप्रतिपादने प्रामाण्यप्रसिद्धेः । तदप्रसिद्धिश्च गुणवतो वक्तुरभावे तद्गुणैरनिराकृतैर्दो पिस्तस्यापोदितत्वा •
६३४
१५
२०
" Aho Shrut Gyanam"