________________
परि. ४ सू..] स्याद्वादरत्नाकरसहितः
१३३ विरमणादिपञ्चमहाव्रतषष्ठोष्टमादितपःकरणप्रभावात्सुप्रतीतैव सचेतसाम् ।
तथा हि-- प्राणान्न व्यपरोपयन्ति वितथं जल्पन्ति नो सर्वथा
स्तेयं नैव समाचरन्ति वनितां वान्त्या समातन्वते नाऽभ्यस्यन्ति परिग्रहपहिलतां नित्यं तपस्यन्ति ये
संसिद्धा धिषणावतां सुमुनयस्ते सत्यसङ्कल्पिताः ।। ५४०॥ निरतिशयप्रभावसमन्वितैर्हि तैरमुष्मान्मन्त्रादस्येदं फलं भवत्वित्यनुसन्धाय यदा यया कयाचिद्भाषया प्रयुज्यन्ते मन्त्रास्तदा तेषां तत्प्रभावादेव तथाविधार्थक्रियाकरणसामर्थ्य सम्भाव्यते । दृश्यते हि साम्प्रतमपि महाप्रभावमन्त्रवादिन आज्ञाप्रदानान्निर्विषीकरणादिकम् । १० स चेत्यम्भूतः प्रभावो नेतरपुरुषाणां समस्ति । तेन न सर्वेषां मन्त्रकर्तृत्वम् । न च वाच्यं शब्दशक्तित एव निर्विषीकरणादिफलनिष्पत्तिर्न पुनः पुरुषशक्तेरिति । मुद्रामण्डलादीनां नैफल्येनाकरणप्रसङ्गात् । पुरुषाणां विध्यभिसन्धिविशेषानपेक्षित्वप्रसङ्गाच्च । पुरुषशक्तितः फलनिष्पत्तौ तु नायं दोषः । तेन हि यत्र यथा समयः कृत- १५ स्तत्र तथा समयानुपालनात्फलं निप्पद्यते । यां वा देवतामधिश्रित्य मन्त्रः प्रणीतः सैव तत्समभिव्यापारसामर्थ्यात्समयमनुपालयन्तमनुगृह्णाति । राजादिवत् । कस्यचित्तत एवानर्थ इत्यादि विकल्पश्च न स्यात् । किंच, समयाभिज्ञेनोच्चारितमेकैकमप्यक्षरं विषापहारादिकार्यं कुर्वदुपलभ्यते नेतरैः । स्वाभाविकत्वे तु पावकवदतद्वदि १० प्रयोगेऽपि स्वकार्यं कुर्यात् । अपि च काव्यस्यापि पौरुपेयत्वे सर्वे पुरुषाः काव्यकृतः किं न स्युरिति किं न पर्यनुयुज्यते । ननु काव्यं कुर्वाणः पुरुषो दृश्यते । न मन्त्रं कुर्वन्निति । नैवम् । मन्त्रकृतोऽप्यनुमानागमाभ्यां दर्शनात् । न चासर्वविद्दर्शनं समस्तवस्तुविषयं येन तन्निवृत्तावदृष्टस्याभावः स्यात् । किंच भारतादी- २५
१ अस्मन्मुद्रापितत . सू. ७१६ दि. २॥
"Aho Shrut Gyanam"