________________
६३२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. " भवत्सम्बन्धिना सर्वसम्बन्धिना वा । यदि भवत्सम्बन्धिना । तागमान्तरेऽपि कर्तृसद्भावग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेस्तत्कर्तृस्मरणस्य च्छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावाव्यभिचारी हेतुः । अथ तत्र तद्राहकत्वेनास्मत्प्रत्यक्षस्याप्रवृत्तावपि परैः कर्त्तसद्भावाभ्युपगमान्न ५ व्यभिचारः । तन्न । परकीयाभ्युपगमस्य भवतोऽप्रमाणत्वात् । अन्यथा वेदेऽपि परैस्तत्सद्भावाभ्युपगमादस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः स्यात् । सर्वसम्बन्धिना चेत् । सोऽसिद्धोऽग्दिशा तस्यावसातुमशक्यत्वात् । अथ प्रमाणान्तरेणानुभवाभावः । तन्न । आगमस्य तत्र कर्तृसद्भावावेदकस्य प्रतिपादितत्वात् । वचनरचनावत्त्वाद्यनुमानस्य च तत्प्रसाधकस्य सद्भावात् । तथा हि । पौरुषेयो वेदो वचनरचनावत्त्वाद्भारतादिवत् । यदप्यवादि । वेदरचनायाः कर्तृपूर्वकरचनाविलक्षणत्वादित्यादि । तत्र यदेतद्दःशक्त्वदुर्भणत्वादि तद्वैलक्षण्यं तत्सकलं पुरुषाणां न दुष्करम् । विज्ञानकरणापटुतापराधीनत्वाद्वाचा प्रवृत्तेः ।
ननु पौरुषेयत्वे वेदानां मन्त्रत्वानुपपत्तिः । मन्त्रो हि जप्यमानः फल१५ दायी दृष्टः । न च तथा पौरुषेयो वेद इति । एतदप्यविचारितर
मणीयम् । शैवाद्यागमानामध्यपौरुषेयत्वप्रसक्तेः । तत्र ये हि मन्त्राः फलदायिनः सन्ति तेऽपि वैदिका एवेति न वाच्यम् । शूद्राणामपि फलदायित्वात्तेषाम् । वेदेषु च भवदभिप्रायेण शूद्राणामधिकारो
नास्ति । अनधिकारिणां च कथं मन्त्राः फलं प्रयच्छेयुः । अपि च २० प्राकृता अपि मन्त्राः फलदा दृश्यन्ते । न च वेदेषु प्राकृतशब्दगन्धोऽ
प्यन्ति । तस्मात्प्राकृतमन्त्रबद्वैदिका अपि मन्त्रा पौरुषेया एवेत्यभ्युपगन्तुं युक्तम् । नन्वेवं सर्वे पुरुषाः किं न मन्त्रकारिणो भवन्तीति
चेत् । उच्यते । सर्वेषामसमानशक्तिकत्वात् । ये हि सत्यसङ्कल्पास्त एव मन्त्रान्कर्तुं शक्नुवन्ति । सत्यसङ्कल्पता च सुमुनीनां प्राणोतिपात
१ प्राणातिपातः-प्राणिप्राणवियोजनं तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वक निवर्तनम् । आदिशब्देन भुषावादादत्तादानमैथुनपरिग्रह विरमणानां 'ग्रहणम् ।
"Aho Shrut Gyanam"