________________
परि. ४ सू..] स्याद्वादरत्नाकरसंहितार
काटा । गाधीनगर fe विप्रतिपत्तेस्तद्विशेषस्मरणमेवाप्रमाणं स्यान्न कर्तृमात्रस्मरणम् । अन्यथा कादम्बर्यादीनामपि कविप्रतिपत्तेः कर्तृमात्रस्मरणस्याप्रमाणत्वेनास्मर्यमाणकर्तृकत्वे सत्यकर्तकत्वं स्यात् । अथ वेदे कर्तृविशेषविप्रतिपत्तिवत्कर्तुमात्रेऽपि विप्रतिपत्तेस्तन्मात्रस्मरणमप्यप्रमाणम् । कादम्बर्यादीनां तु कर्तृविशेष एव विप्रतिपत्तेस्तत्प्रमाणमतो नाकर्तृक. ५ त्वम् । ननु वेदे योगादयः कर्तारं स्मरन्ति न मीमांसका इत्येवं कर्तृमात्रे विप्रतिपत्तेर्यदि तदप्रमाणं तर्हि तद्वत्तदस्मरणमप्यप्रमाणं किं न स्यात् । विप्रतिपत्तेरविशेषात् । तथा चायमसिद्धो हेतुः। किंच, अस्मर्यमाणकर्तृत्वं वादिनः प्रतिवादिनः सर्वस्य वा सम्बन्धि हेतुत्वेनाभिमतं भवेत् । यदि वादिनस्तर्हि तदनैकान्तिकम् । वटे वटे वैश्र- १० वण इत्यादिषु विद्यमानकर्तृकेष्वपि जैमिनीयैरस्मर्यमाणकर्तृकेष्वस्य सद्भावात् । ननु वेदे कञभावपूर्वकमस्मर्यमाणकर्तृकत्वमत्र तु कर्चनुपलम्भमात्रपूर्वकं तत्कथमनैकान्तिकमित्यपि मनोरथमात्रम् । यतः कुतोऽत्र कर्बभावसिद्धिः । प्रमाणान्तरादत एव वा । यदि प्रमाणान्तरात् । तदाऽस्यानर्थक्यम् । अत एव चेत्, परस्पराश्रयः । अतो १५ हनुमानात्तदभावसिद्धौ तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिध्येत्तत्सिद्धौ चानुमानात्तदभावसिद्धिरिति । अथ प्रतिवादिनः सम्बन्धि तद्धेतुत्वेन विवक्षितम् । तदसिद्धम् । तत्र हि प्रतिवादी स्मरत्येव कर्तारम् । एतेन सर्वस्यास्मरणं प्रत्याख्यातम् । यदप्युक्तम् । ये हि यच्छास्त्रार्थानुष्ठाने प्रवर्तन्ते ते तच्छास्त्रकर्तारं नियमेन स्मरन्तीत्यादि । २० तदप्यनल्पतमोविलसितम् । नियमाभावात् । न हि यो धर्मशील इत्यादिवाक्येभ्यस्तदर्थानुष्ठाने प्रवर्तमानानामनुष्ठातृणां तत्कर्तृस्मरणमस्ति । तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थोपयोगिन्यैहिकपारत्रिकमयाभावहेतौ प्रवृत्तिप्रतीतेः । यच्चान्यदुक्तं छिन्नमूलत्वादित्यादि । तदप्यसुन्दरम् । यतोऽध्यक्षेणानुभवाभावात्तत्र २५ कर्तृस्मरणं छिन्नमूलं प्रमाणान्तरेण वा। अध्यक्षेणेति चेत् । किं
"Aho Shrut Gyanam"