________________
६३०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.. .. अथ सर्वे प्रमातारः । ननु त्रैलोक्योदरविवरवर्तिनः प्रमातारो बेदकर्तारं न स्मरन्तीत्यसर्वविदो वेदनानुपपत्तिः । अपि च सर्वप्रमातृदेशान्गत्वा तांश्च पृष्ट्वा तत्र कर्तृस्मरणाभावः प्रतीयेताऽन्यथा वा । न तावदन्यथा, सर्वज्ञत्वानुषङ्गादेव । गत्वा चेन्ननु तत्र गत्वा तेषु पृष्टेषु न स्मराम इति प्रतिवचनं ब्रुवाणेष्वपि को नाम विश्रम्भः । न हि तेषु सर्वेष्वसर्वज्ञस्य युगपत्क्रमाभ्यामाप्तताप्रतीतिः सम्भवति । यतस्तद्गुणसंक्रान्त्या तत्र प्रामाण्यं स्यात् । किंच अभावप्रमाणस्य तत्र प्रवृत्तियत्र वस्तुसद्भावग्राहकं प्रमाणपञ्चकं न प्रवर्त्तते । प्रमाणपञ्चकं
यत्रेत्याद्यभिधानात् । न चैवमिहास्ति । वेदस्य पुराणस्य च शाब्द१० प्रमाणस्य वेदकरि प्रवर्त्तनात् । वेदवाक्यं हि-" रुद्रं वेदकर्तारं, यो
ब्रह्माणं विदधाति पूर्व वेदांश्च प्रहिणोति, तथा-प्रजापतिः सोमं राजानमन्वसृजत्तत्र त्रयो वेदा अन्वसृजन्त" इत्यादिकम् । पुराणं च" प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते” “अनन्तरं तु वस्त्रेभ्यो
वेदास्तस्य विनिःसृताः" इत्यादि कर्तृसद्भावावेदकमनेकधा श्रूयते । १५ स्मृतिपुराणादिवच्च काण्वमाध्यन्दिनतैत्तिरीयादयः शाखाभेदास्तत्कर्तृ
त्वादेव तत्तदृषिनामाङ्किता इति कथमस्मर्यमाणकर्तृकाः। अथ तद्दष्टत्वात्तत्प्रकाशितत्वाद्वा तन्नामाकिता इति चेत् । तन्न । यतो यदि तावदुत्सन्नाः शाखाभेदाः कण्वादिना दृष्टाः प्रकाशिता वा । तदा कथमेषां
सम्प्रदायाविच्छेदोऽतीन्द्रियार्थदर्शिनः प्रतिक्षेपश्च स्यात् । अथानव२० च्छिन्ना एवैते सम्प्रदायेन दृष्टाः प्रकाशिता वा । तर्हि यावद्भिरुपा
ध्यायैदृष्टाः प्रकाशिता वा तावन्नामभिरेषां किन्नाङ्कितत्वं स्यात् । अविशेषात् । अपि चाऽन्ये वादिनः स्मरन्ति वेदस्य कर्तारमित्यसिद्धमेवाऽस्मर्यमाणकर्तृकल्वम् । अथोच्यते, अस्ति तेषां वेदे कर्तृस्मरण
किन्तु सविगानम् । तत्कर्तृविशेषविप्रतिपत्तेः । तथा हि--योगा रुद्र२५ कर्तकत्वं तस्याहुः । जैनाः कालासुरकर्तृकत्वम् । सौगतास्त्वष्टककर्तृ
कत्वम् । अतोऽप्रमाणं तदिति । तदप्युक्तिमात्रम् । यतः कर्तृविशेषे
"Aho Shrut Gyanam"