________________
परि. ४ सू..] स्याद्वादरत्नाकरसहितः : ६२९ त्याद्यवादि तत्रास्मर्यमाणकर्तृकत्वमसिद्धम् । कर्तृस्मरणाभावग्राहकप्रमाणाभावात् । न खलु प्रत्यक्षं तद्राहकम् । प्रतिनियतरूपादिगोचरचारित्वेनाभावे तस्य प्रवृत्त्यसम्भवात् । सम्भवे वाऽभावप्रमाणकल्पनावैफल्यम् । तत्साध्यस्याध्यक्षत एवं प्रसिद्धेः । अभावप्रमाणातत्सिद्धौ तु कर्तृस्मरणाभावगोचरस्याभावप्रमाणस्योत्पत्तौ कारणं वाच्यम् । गृही- ५ त्वा वस्तुसद्भावमित्यादिना सूचितं तत्कारणमस्तीति चेत् । नन्वतः प्रादुर्भूतमभावप्रमाणं तदभावं साश्रयमेव प्रसाधयेत् । गृहीत्वा वस्तुसद्भावमित्यभिधानात् । अनेन हि निषेध्याधारवस्तुमहणमभिदधता भट्टेन निषेध्याभावाश्रयः सूचित एव । अन्यथा प्रतिनियतवृत्तितया कर्तृस्मरणाभावसिद्धिस्ततो दुर्लभा । आश्रयश्चास्य स्वात्मा सर्वे प्रमा- १० तारो वा । यदि स्वात्माऽमुष्मिन्मदीय आत्मनि वेदकस्मरणं नास्तीति. किमेतावता सिद्धम् । पदार्थजातस्यानेकस्यातः स्मरणं नास्ति न
चैतावता तस्याभावः सिद्धयति । अथ ममानुष्ठानेऽवश्यं स्मर्तव्योऽसौ यदा स्मृतिपदप्रस्थायी न भवति तदाऽसन्निति निश्चीयत इत्यध्यसारम् । यतः-- .. यद्यद्वस्तु समस्ति न स्मृतिपथप्रस्थायि ते भो बटो .
विस्पष्टं यदि तस्य तस्य सकलस्यासत्त्वमाभाषसे ॥ - एवं तर्हि पितामहस्य पितरं मातामहीमातरं :
तन्मातापितरौ च न स्मरसि तत्तेषामभावो भवेत् ॥५३७॥ तेषामभावे च भवेदभावः कथं न हि त्वत्कपितामहादेः ।। तथा सति स्याद्भवतोऽप्यभावः स्वनामुना कुत्सितशङ्कितेन ॥ ५३८ ॥ तथा-- समुत्पन्नेऽप्यर्थे स्वयमपि धृतं वस्तु किमपि . क्वचित्कस्याप्यंत्र जति सहसा विस्मृतिपदम् ।। न चैतावन्मात्रादभवनममुप्य प्रवदितुं
२५ लया शक्यं तस्माद्यभिचरितमेतत्तव वचः ।। ५३९ ॥
"Aho Shrut Gyanam"