________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.. शब्दोच्चारण एवाप्तस्य व्यापारात् । शब्दः पुनरविसंवादिनी वस्तुप्रतीतिं विदधानः स्वमहिन्नैव प्रमाणम् । न चैवमनाप्तस्यापि तदुचारणमात्रे व्यापाराच्छब्दः स्वमहिम्नैवाऽसत्यार्थप्रतिपत्तिं कुर्वाणोऽप्रमाणमित्यभिधानीयम् । अनाप्तप्रणीतत्वादिदोषाणामप्रामाण्योत्पादनादन्यप्रयोजनाभावात् । आप्तप्रणीतत्वाभावान्न प्रामाण्यमप्रामाण्यं वेत्युच्यते । तदप्यनुचितम् । यन्त्र हि पुरुषकृता पदानुपूर्वी तत्र तदपेक्षं प्रामाण्यमप्रामाण्यं वा भवेत् । वेदानुपूर्व्यास्तु नित्यत्वात्स्वसामर्थनैवाऽर्थावबोधकत्वात्पुरुषनिरपेक्षमेव प्रामाण्यम् । न हि तादृशीमानुपूर्वी
कश्चित्कर्तुं क्षमः । पूर्वसिद्धानुपूर्वीतोऽपूर्वानुपूर्वीकरणे कस्यचित्स्वा१० तन्त्र्यासम्भवात् । कुर्वाणो वा ता तदध्येतृभिरन्यैबहुभिर्निवार्यते । तदुक्तम्-" अन्यथा करणे चास्य बहुभ्यः स्यान्निवारणा" इति ।
एवं चयत्राश्रान्तं विशदमनसः पक्षपातं श्रयन्ते
यः सर्वेषां शुभफलजुषां कर्मणामेकदीपः । १५ यं चाद्यापि प्रगुणितधियो धीयते सर्वतोऽपि
स्वीकर्तव्यः स इह विबुधैर्वेद एव प्रमाणम् ।। ५३५ ।। चित्तेऽस्तु काममुपयातु ततोऽपि कण्ठं
हे श्रोत्रिय स्वमतदुर्धरपक्षपातात् ॥ यत्कण्ठतोऽपि पुनरेतदुपैति वक्त्र
- मम्मन्मनः किमपि तेन हृणीयतें म्म ।। ५३६ ॥ तथा हि यत्तावन्न्यगादि .. रागद्वेपाकलुषितमतिस्तीर्थकृन्नास्ति कश्चिदित्यादि तद्विस्मरणशीलतां सूचयति देवानांप्रियस्य । सकल.. त्रिलोकीसमाकलनाकौशलशालिनः पुरुषधुरीणस्य पूर्व सविस्तरमुपंपादितत्वात् । यदपि कर्तृम्मरणयोग्यत्वे सत्यंस्मर्यमाणकत्र्तकत्वादि
१ मी. श्लो. वा. सू. २ श्लो. १५०.
"Aho Shrut Gyanam"