________________
परि. ४ सू..] स्याद्वादरत्नाकरसहितः जानन्ति ते कृशधिया कथमप्रमेयं
माहात्म्यमस्य रचनासु कथञ्चनापि ॥ ५३४ ॥ न च रचनमात्रस्योपलम्भावेदे कनुमानमुपपन्नम् । विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गतोऽनभिमतसिद्धिप्रसक्तेः । ततो यादृशी रचना कर्जन्वयव्यतिरेकानुविधायिनी समधिगता तादृश्येव परिदृश्य- ५ मांना कर्तारमनुमापयन्तीत्यङ्गीकर्त्तव्यम् । अतः कथं वेदे ततः कनुमानशङ्काऽपि सम्भाव्यते । ततः सिद्धमिदम् । वैदिकी रचना पौरुषेयी न भवति दृष्टकर्तृकरचनाविलक्षणत्वादन्तरिक्षवदिति । तथा, " वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ॥ वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥१॥ अतीतानागतौ कालो वेदकारविवर्जितौ ॥ १० कालत्वात्तद्यथा कालो वर्तमानः समीक्ष्यते ॥ २॥” इत्याभ्यामप्यनुमानाभ्यां वेदस्यापौरुषेयत्वं सिद्धिसरणिमनुसरति । नन्वाप्सप्रणीतत्वाभावे कथमस्य प्रामाण्यं स्यादिति चेत् । अपौरुषेयत्वादेवेति ब्रूमः । वचनस्य पुरुषदोषानुप्रवेशेनैवाप्रामाण्यप्रसिद्धेः । यथोक्तम्--" शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितिः ।। तद- १५ भावः क्वचित्सिद्धो गुणवद्वक्तृकत्वतः॥१॥ तद्गुणैरपकृष्टानां शब्दे सक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥२॥” इति । तदभाव इति दोषाभावः । क्वचिदिति लौकिकवाक्ये । तद्गुणैरिति गुणवंद्वक्तगुणैः । वेदे हि गुणवान्वक्ता दुनिस्तेन दोषाभावोऽप्यशक्यनिश्चयः। कर्तुरभावे तु सुखेनैव निश्चीयते । तथा हि- २० "दोषाः सन्ति न संन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुरभावाद्धि दोषाशझैव नास्ति नः ॥ १॥" नन्वाप्तगुणसंक्रान्त्यैव शब्दस्य प्रामाण्यं वेदे चाप्तप्रणीतत्वाभावतस्तत्संक्रान्त्यसम्भवात्कथं प्रमाणत्व. मिति चेत् । तदयुक्तम् । यतो नाप्तगुणसंक्रान्त्या वेदे प्रमाणत्वम् ।
१ श्लो. वा. अ. १ पा. १ सू. ७ श्लो. ३६६ । २ श्लो. वा. अ. १ पा. १ सु. २ श्लो. ६॥६॥
"Aho Shrut Gyanam"