________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ तस्यासिद्धम् । तथाहि वेदोऽपौरुषेयः कर्तृस्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वाद्यदित्थं तदित्थं यथाकाश इति । न चात्र हेतोरसिद्धिः । यदि हि वेदे कर्ता भवेत्तदा वेदार्थानुष्ठानकालेऽ
नुष्ठातुणामनिश्चितवेदप्रामाण्यानां तत्प्रमाणताप्रसिद्धये तद्गोचरस्मरण. माविर्भवेत् । ये हि यच्छास्त्रार्थानुष्ठाने प्रवर्त्तन्ते ते तच्छास्त्रकार नियमेन स्मरन्ति यथाऽष्टकाद्यर्थानुष्ठानार्थिनस्तत्प्रणेतारं मनुम् । वेदविहितार्थानुष्ठाने प्रचुरद्रविणव्ययोत्पन्नपरिश्रमनिवर्तनीयाग्निहोत्रादिकर्मलक्षणे प्रवर्तन्ते च प्रेक्षाशालिनोऽतस्तेषां महती वेदकर्तृस्मरणा
पेक्षा । ते ह्यनुपलब्धफलेषु नानाविधकर्मस्वेवं निःसन्देहाः प्रवरन्, १. यदि तेषां तद्विषयः सत्यतानिश्चयः सम्पन्नो भवेत् । न चासौ तदुप
देष्टुः स्मरणाभावे युज्यते । पित्राद्युपदेशवत् । यथैव हि पित्रादिकमुपदेष्टारं स्मृत्वा स्वयमदृष्टफलेप्वपि कर्मसु तदुपदेशात्प्रवर्त्तन्ते पित्रादिभिरेतदुपदिष्टं तेनानुष्ठीयत इति । एवं वैदिकप्वपि कर्मस्वनुष्ठीयमानेषु कर्तुः स्मरणं स्यात् । न चाभियुक्तानामपि वेदार्थानुष्ठातृणां त्रैवर्णिकानां तत्स्मरणमस्ति, अतोऽसौ तत्र नास्तीति निश्चीयते । कर्तृस्मरणाभावश्च छिन्नमूलत्वात् । स्मरणस्य ह्यनुभवो मूलम् । न चासौ वेदकर्तृविषयत्वेन विद्यते । तत्कथं तत्स्मरणसम्भावनाशङ्काऽपि । न च रचनावत्त्वेनात्र भारतादिवत्कर्तृसद्भावप्रसिद्धेर्नास्य छिन्नमूलत्वमित्यभिधातव्यम् । वेदरचनायाः कर्तृपूर्वकरचनाविलक्षणत्वात् ।
२० तथा हि
यद्भोः दुस्सवदुर्भणध्वनिगणः सर्वेन्द्रियागोचर
स्यार्थस्य प्रतिपादनं प्रतिपदं मङ्गिर्न वा छन्दसाम् ।। लोकव्याकरणाप्रयुक्तविविधध्वानप्रबन्धस्तथा
मन्त्राणां महिमा स कोऽपि रचना वेदे तदन्या ध्रुवम् ॥५३३॥ ये त्वादृशास्तु न पठन्ति न वाश्रयन्ति
शृण्वान्त नापि भुवनाद्भुतभूतमेतम् ॥
२५
"Aho Shrut Gyanam"