________________
परि. ४ सु. ७] स्याद्वादरत्नाकरसहितः त्तरः पुनराप्तस्तीर्थकरादिः। आदिशब्देन गणधरप्रत्येकबुद्धादीनां ग्रहणम्। तत्र येनेह प्रबलयुक्तिकीलिकाकलापाक्रान्तकर्कशानेकप्रमेयरज्जुसहस्रोपनिबद्धप्रचुरप्रकरणफलककोटिघटनापिशङ्कटेन शिशिरमरीचिमण्डलोदञ्चत्प्रचुररुचिसञ्चयसुचारुचारित्रोचकूपस्तम्भावष्टम्भमिष्टमहिष्टोपजायमाननानाविधोपद्रवप्रबन्धप्रध्वंसविधानसावधानविशुद्धबुद्धिन्धिानसद्गुरुक- ५: र्णधारप्रेरणीयेन प्रबुद्धधीवरसहस्रप्रेर्यमाणानेकपकारनयारिनिकुरुम्बन भूरिभङ्गभनिगमग्राममहाकेतुकोटिसङ्कटेन परमार्थोपार्जनोपजायमानासमानमनोरथजनैकसेवनीयेन नितान्तदुष्टवाचाटतीर्थिककुटुम्बकाकस्मिकक्रियमाणमहाकोलाहलकालिकावातेनाऽप्यक्षोभमाणेन प्रतिक्षणविचक्षणसभामूर्त्यमाणसूक्ष्मकादिविचारप्रपञ्चप्रचुरगृह्यकवातसन्ताना- १०. पूरिततत्त्वार्थमयसितपटेन यानपात्रेनेव जन्मजरामरणक्षारनीरनिरन्तरमनवरतोपजायमानमनोरथमहोमिमालाव्याकुलमाकस्मिकातिदुरिरौद्रपरिणाममहावेलासहस्रहेतुचतुःकषायपातालकलशमलं सविलं सद्विपुलप्रियविप्रयोगप्रमुखदुःखनिकरभयङ्करमकरपरम्परापरिचयदुरालोकम--- तिविकटमकरकेतुतिमिडिलकरालवक्त्रकुहरान्तमूर्छदतुच्छसत्त्वसन्दोह- १५. मुदग्रमिथ्यात्वकालकूटच्छटलान्छितकुक्षिकुहरमनेककदाग्रहग्राहनिवह- .. ममन्दप्रवादकादम्बरीस्वादनोन्मत्तम्रमद्भरिजलजन्तुसन्तानमतिदुरतिक्रममहामोहावर्तरौद्रं भवसमुद्रं भविनस्तरन्ति तत्तीर्थम् । प्रवचनमिति यावत् । ततश्चाचिन्त्यमाहात्म्यमहापुण्यापराभिधानतीर्थकरनामकर्मविपाकादेवविधतीर्थकरणशीलस्तीर्थकरश्रीवर्धमानजिनप्रमुखः पुरुष- २०. विशेष इति । अत्राहुमिनीयाः
रागद्वेषाकलुषितमतिस्तीर्थकृन्नास्ति कश्चित् .. रागद्वेषविनिर्मुकं पुरुषविशेषमनभ्युपगच्छता वेदा. यः स्यादाप्तो बत कथमहोतद्वचः स्यात्प्रमाणम् । पौरुषेयत्ववादिना मीमांस-वेदस्तस्मात्पुरुषवचनालाञ्छनोन्मुक्तमूर्तिः । २५. कानां पूर्वपक्षं सविस्तरमु.
प्रामाण्यश्रीविलसदसमप्रेमपात्रं समस्तु॥५३२।।
न च पुरुषवचनालाञ्छनोन्मुक्तमूर्त्तित्वं . १ प्रत्येकं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः। :
"Aho Shrut Gyanam"