SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ '६२४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ४ · कीदृशः पुमानाप्तः स्याद्यद्वचननिबन्धनमर्थावबोधनमागमप्रमाणतया सम्मतमित्याशङ्कयाप्तलक्षणमाहअभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त इति ॥४॥ ५ अभिधेयं वस्तु रत्ननिधानरत्नसानुप्रभृतिकं यथावस्थितं येन स्वरूपप्रकारेण व्यवस्थितं यः कश्चिज्जानीते प्रत्यक्षादिप्रमाणतो निश्चिनोति यथाज्ञानं ज्ञानानतिक्रमेणाभिधत्ते स आप्तः । आप्यते उपदिष्टोऽथोंsममादित्याप्त इति व्युत्पत्तेः ॥ ४॥ अथ कस्मादेवंविधस्यैवातत्वमित्याशङ्कथाह१० तस्य हि वचनमविसंवादि भवतीति ॥५॥ यो हि यथावस्थिताभिधेयवस्तुपरिज्ञाने निपुणः परिज्ञानानुसारेण तदुपदेशकुशलश्च तस्य हि यम्माद्वचनमविसंचादि विप्रलम्भपरिभ्रंशतः संवादिकं भवति नाऽन्यस्य । ततो यथोक्तलक्षणलक्षितस्यैवाप्तत्वम् । एतेन च “ यो यस्यावञ्चकः स तस्याप्त इति ” ऋप्याम्लेिच्छ१५ साधारणं वृद्धप्रणीतमात्मलक्षणमनूदितं भवति ।। ५ ॥ कतिविधोऽयमाप्त इत्याहस च द्वेधा लौकिको लोकोत्तरश्चेति ॥ ६॥ लोके सामान्यजन्यरूपे भवो लौकिकः । लोकादुत्तरः प्रधान मोक्षमार्गोपदेशकत्वाल्लोकोत्तरश्चाप्त इति ॥ ६॥ २० तावेव निदर्शयन्नाह--- लोकिको जनकादिलोंकोत्तरस्तु तीर्थकरादित इति ॥७॥ लौकिक आप्तो जनकादिः। आदिशब्देन जनन्यादिपरिग्रहः । लोको "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy