________________
परि. ४ सू. ३] स्याद्वादरत्नाकरसहितः क्तृत्वात्पूर्वावस्थास्वहं यथा ॥१॥” इति । तदप्यशोभनम् । व्यभिचारात् । न हि शुकसारिकोन्मत्तप्रभृतयस्तथाभिप्रायेण वाक्यमुचारयन्तः प्रतीयन्ते । अपि च समयानपेक्षः शब्दस्तादृशमभिप्रायं गमयेत्समयसापेक्षो वा । प्रथमपक्षे न कश्चित्वचिद्भाषानभिज्ञः स्यात् । समयापेक्षस्तु शब्दोऽर्थमेव किं न गमयेत् । न ह्ययं तपस्वी बाह्यार्था- ५ बिभेति येन तत्र न साक्षात्प्रवर्तत । अशक्यसमयत्वान्न शब्दोऽर्थ गमयतीत्यपालोचितवचनम् । अभिप्रायेऽपि तदगमकत्वप्रसङ्गात् । तत्रापि तस्याशक्यसमयत्वाविशेषात् । असिद्धं च शब्दस्याशक्यसमयत्वम् । “ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः" इत्यत्र वक्ष्यमाणसूत्रे तच्छक्यसमयत्वस्य । प्रबन्धेनाभिधास्यमानत्वात् । १० ततश्च सिद्धमिदम् । शब्दो वक्त्रभिप्रायाद्भिन्नार्थविषयः सत्यानृतव्यव. स्थोपेतत्वात् । यदित्थं तदित्यं यथा प्रत्यक्षादि । तथा च शब्दस्तस्मात्तथेति । एवं च न विवक्षायामेव शब्दस्य प्रामाण्यामिति । ततः शब्दो नानुमानं तद्विभिन्नविषयत्वात् , तद्विभिन्नसामग्रीसमन्वितत्वाञ्च प्रत्यक्षवत् । तस्मादेतल्लिङ्गिकाद्भिन्नरूपं स्वीकर्तव्यं शाक्यसिंहस्य शिष्यैः । . शाब्दं मानं यद्विना नावगन्तुं शक्यन्तेऽर्थाः स्वर्गमुख्या:परोक्षाः॥५३१॥
॥२॥ अत्रोदाहरणमाहसमस्त्यत्र प्रदेशे रत्नविधानं सन्ति रत्नसानुप्रभृतय २०
इति ॥३॥ रत्नसानुमेरुः । अत्र प्रथमोदाहरणं लौकिकजनकाद्याप्तवचनापेक्षयेति
॥३॥
१प्र.न.प. ४ स. १।
"Aho Shrut Gyanam"